प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 269, कुल 274 में से
संदर्भ में पढ़ेंपरिशिष्ट २४९
नायकः—‘त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही ।
दक्षोऽनुरक्तलोकस्तेजो वैदग्ध्यशीलवान्नेता’ ॥
[इदमपि लक्षणमत्रत्ये नायके नान्वेति, तस्यालौकिकत्वादतो विलक्षणताऽस्य मन्तव्या]
बीजम्—‘अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ।
फलस्य प्रथमो हेतुर्बीजमित्यभिधीयते’ ॥
विन्दुः—‘अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्’ ।
कार्यम्—‘अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ।
समापनं तु यत्सिद्धयैतत्कार्यमिति सम्मतम्’ ॥
सन्धिः—‘अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति’ ।
पञ्चसन्धयः—‘मुखं प्रतिमुखं गर्भो विमर्श उपसंहतिः । इति पञ्चस्य भेदाः स्युः०’
मुखम्—‘यत्रबीजसमुत्पत्तिर्नानार्थरससम्भवा ।
प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितम्’ ॥
प्रतिमुखम्—‘फलप्रधानोपायस्य मुखसन्धिनिवेशितः ।
लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखञ्च तत्’ ॥
गर्भः—‘फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चन ।
गर्भो यत्र समुद्रभेदो हासान्वेषणवान्मुहुः’ ॥
विमर्शः—‘यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः ।
शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः’ ॥
निर्वहणम्—‘बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथातथम् ।
एकार्थमुपनीयन्ते यत्र निर्वहणञ्च तत्’ ।
[ एषां या न्यङ्गान्यत्र प्रकाशे समायातानि तानि तत्रैव सलक्षणं निर्दिष्टानीति
तत एवावसेयानि ]
नायकादिनिरूपणम्
नायकः—विवेकः ( आध्यात्मिको भावविशेषः )
नायिका—उपनिषद्देवी ( विद्याप्रभेदः )
स्थायिभावः—निर्वेंदः ।
उद्दीपनविभावाः—तपोवनरामकथादयः ।
सात्विकः—हर्षपुलकादयः ।
व्यभिचारिणः—मतिधृतिहर्षादयः ।
रसः—शान्तः ।
गुणः—प्रसादमाधुर्य्ये ।