प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 262, कुल 274 में से
संदर्भ में पढ़ें२४२ प्रबोधचन्द्रोदयम्
क्षीणीचन्द्रखबाहुसम्मितशरच्छाशातिथौ फाल्गुने
चन्द्रे पुष्यति देवपूज्यदिवसे श्रीशारदानुग्रहात् ।
रांचीस्थायिनि राज्यसंस्कृतमहाविद्यालये पूर्णता-
मानीतेयमुमामहेश्वरपदाम्भोजेषु विश्राम्यतु ॥ २ ॥
'विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा'-
उक्त्वैतद्विसुखीभवामि न मनागालोचनावर्त्मनः ।
ते हि स्वर्णपरीक्षणैकनिकषा निष्पक्षपातां दशां
प्रक्षिप्यात्मगुणोचितादरभुवं कुर्युर्ममेमां कृतिम् ॥ ३ ॥
छिद्रान्वेषणमात्रसज्जधिषणानप्यत्र दोषान्वहून्
ग्रन्थे दर्शयतो न मत्सरितया निन्दामि किन्त्वर्थये ॥
निर्दोषेण पथा प्रशस्तरचनां निर्माय काञ्चित्कृतिं
लोकेभ्यः समुपाहरन्तु भविता भूयो यशोऽनेन वः ॥ ४ ॥
मान्यान्यानहमाद्रिये नतशिरास्ते ते सखायश्च मे
येषामाग्रहातो विदन्नपि निशां शक्ति प्रवृत्तोऽभवम् ॥
व्याख्यानेऽत्र न तैरियं मम कृतिः कार्याऽन्यथा दृक्पदं
सर्वानिन्दितकीर्तिलाभसुभगं भाग्यं कुतोऽस्मादृशाम् ॥ ५ ॥
इति मुजफ्फरपुरमण्डलान्तःपाति-'एकड़ी'ग्रामवासिना-रांचीस्थराजकीय-
संस्कृतमहाविद्यालये साहित्याध्यापकेन व्याकरणवेदान्तसाहित्या-
चार्योपाधिप्रसाधिना मैथिलपण्डित श्रीरामचन्द्रमिश्रशर्मणा
विरचितायां 'प्रवोधचन्द्रोदय'नाटकस्य टीकायां
प्रकाशाभिधायां षष्ठाङ्क'प्रकाशः' ।
शुभमस्तु ।