प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 261, कुल 274 में से
संदर्भ में पढ़ेंपर्जन्योऽस्मिन् जगति महतीं वृष्टिमिष्टां विधत्तां
राजानः क्ष्मा गलितविविधोपप्लवाः पालयन्तु ।
हृत्वोन्मेषोपहततमसस्त्वत्प्रसादान्महान्तः
संसारान्धिं विषयममतातङ्कपङ्कं तरन्तु ॥ ३३ ॥
( इति निष्क्रान्ताः सर्वे )
इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके
जीवन्मुक्तिर्नाम षष्ठोऽङ्कः ॥ ६ ॥
समाप्तमिदं नाटकम् ।
फलप्राप्तिरूपं निर्वहणसन्धेरङ्गमत्रोपन्यस्तं वेदितव्यम् ।
पर्जन्य ०इति० अस्मिन् जगति संसारे पर्जन्यः मेघः महतीम् यावदपेक्षिताम्
इष्टां यथाकालोपनताम् वृष्टिम् जलवर्षं विधत्ताम् करोतु, गलितविविधोपप्लवाः
शान्तोपद्रवा ईत्याद्युपद्रवरहिता। राजानः भूपालाः क्ष्माम् पृथिवीं पालयन्तु रक्षन्तु ।
महान्तः महाजनाः उन्मेषोपहततमसः स्वोदयविनष्टाज्ञानान्धकारात् त्वत्प्रसादात्
तव विष्णुभक्तेरनुग्रहात् विषयममतातङ्कपङ्कम् सांसारिकविषयरूपस्त्रीपुत्रादिममत्व-
कृतनानाविधशङ्काकर्दमम् हत्वा निरस्य संसारान्धिं भवसागरं तरन्तु पारं गच्छन्तु ।
संसारस्य सागरत्वेन रूपणे क्रियमाणे स्त्रीपुत्रादिविषयकनानाविधशङ्कायाः पङ्कत्वं
रूप्यते । स्पष्टमन्यत् ॥ ३३ ॥
अत्राशीर्नाम नाट्याङ्गम् ।
यो जातो धरणीसुरान्वयसरोहंसात्प्रसर्पद्यशो-
ज्योत्स्नाद्योतितदिङ्मुखान्मधुरिपुध्यानैकबद्ध्याशयात् ।
मिश्राख्यान्मधुसूदनादुजयमणौ सीमन्तिनीनां मणौ
तस्य श्रीयुतरामचन्द्रसुधियो व्याख्या प्रसिध्यादियम् ॥ १ ॥
मेघ इस धराधाम पर यथेच्छ वृष्टि किया करे, नाना प्रकारके उपद्रवोंसे रहित होकर
राजागण पृथ्वीका पालन करें, तुम्हारे प्रसादसे महान् जन तत्क्षण अज्ञानको दूरकर
विषयरूप ममतापङ्कपूर्ण संसारसागरका पार जायें ॥ २२ ॥
( सबका प्रस्थान )
षष्ठ अङ्क समाप्त
१६ प्र० च०