प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 242, कुल 274 में से
संदर्भ में पढ़ें२२२ प्रबोधचन्द्रोदयम्
राजा—( सोपहासम् ) अहो धूमान्धकारश्यामलितदृशो दुष्प्रज्ञत्वं यज्ञ-
विद्यायाः येनैवं कुतर्कोपहता ।
अयः स्वभावादचलं बलाच्चल-
त्यचेतनं चुम्बकसंनिधाविव ।
तनोति विश्वेशितुरीक्षितेरिता
जगन्ति मायेश्वरतेयमीशितुः ॥ १६ ॥
तस्मात्तमोन्धाना मियमनीश्वरदृष्टिः । अबोधप्रभवं संसारं कर्मभिः
शमयन्ती यज्ञविद्या नूनमन्धतमसमन्धकारेणापि निनीषति ।
सन्ती । धूमान्धकारश्यामलितदृशः-यज्ञधूमकलुषाक्ष्याः । दुष्प्रज्ञत्वम्-कुबुद्धित्वम् ।
कुतर्कोपहता-दुस्तर्कगृहीता, सा यज्ञविद्येति शेषः। कुतर्कश्च-यदि कर्त्तृत्वं न स्यात्तदा
ईश्वरत्वमपि न स्यादेवंरूपः, तस्य कुतर्कतामुपपादयिष्यति-अय इत्यादिनाग्रे ।
अय इति० स्वभावात् निसर्गतः अचेतनम् चेतनाशून्यम् अत एव अचलम् जडम्
अयः लोहम् चुम्बकसंनिधौ चुम्बकसंनिकर्षे यथा बलात् चलति स्पन्दते एवम् तथैव
माया विश्वेशितुः परमात्मनः ईक्षितेरिता दर्शनेन प्रेरिता जगन्ति विश्वानि । तनोति,
इयम् ईशितुः परमात्मन ईश्वरता । भगवदीक्षणप्रेरिताया मायाया एव सृष्टिक-
र्तृत्वं न तु सिसृक्षाद्युपाधिविशिष्टस्येश्वरस्य कर्त्तृत्वमित्याशयस्तेन च परिणममान-
मायाधिष्ठातृत्वमेवेश्वरत्वमिति बोध्यते ॥ १६ ॥
तमोन्धानाम्-यज्ञधूमतमसाऽऽवृतदृशाम् । अज्ञानिनामित्युपहासोऽयम् । अ-
नीश्वरदृष्टिः-ईश्वरराहित्यज्ञानम् । अबोधप्रभवम्-अज्ञानाज्जातम् । कर्मभिः-यागा-
दिभिः । शमयन्ती-नाशयन्ती । यागादेव मुक्तिरिति वदन्तीत्यत्र तात्पर्यम् । अन्ध-
तमसम्-अन्धकारम् । अन्धकारेण निनीषति-तमसा नाशयितुमिच्छति । क्रिया-
भवच्छेदकरीति यद्यागविद्ययोक्तं तदयुक्तम् , तमस्तमो नाशयितुं यथाऽक्षमं तथैव
राजा—( उपहासपूर्वक ) यज्ञधूमसे मीमांसाकी आंखे अन्धी हो गई है, इसीसे वह
इस तरह कुतर्कोपहत है ।
लोहा स्वभावतः अचल होता है, वह अचेतन होकर भी चुम्बक सन्निधानमें चल हो
जाता है उसीतरह ब्रह्मके ईक्षणसे प्रेरिता माया विश्वसृष्टि करती है, यही ईश्वरकी
ईश्वरता है ॥ १६ ॥
तस्मात् अज्ञानियोंकी यह ईश्वरभावना है, अज्ञानसे उत्पन्न इस संसारको मीमांसा
कर्मद्वारा निवृत्त करना चाहती है मानो अन्धकारको अन्धकारसे ही दूर भगाना चाहती