सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 241, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 241

षष्ठोऽङ्कः १२१
ततस्तयोक्तम् ।
पुमानकर्ता कथमीश्वरो भवेत्
क्रिया भवोच्छेदकरी न वस्तुधीः ।
कुर्वन्क्रिया एव नरो भवच्छिदः
शतं समाः शान्तमना जिजीविषेत् ॥ १५ ॥
तन्मे नातिप्रयोजनं भवत्याः परिग्रहेण तथापि यदि कर्तारं भोक्तारं
पुरुषं स्तुवन्ती भवती कियन्तं कालमत्र वस्तुमिच्छति । को दोषः ।
ब्रह्मणः स्वरूपलक्षणं प्रकटितम् । द्वैतध्वान्तमपास्येत्यनेन ब्रह्मप्राप्त्युपायं प्रतीङ्गितं
कृतम्, अपुनर्भावायेत्यनेन ब्रह्मज्ञानफल मोक्ष इत्यभिहितम्, मोक्षस्यानित्यतां
वारयितुं च शाश्वतमुदासीनमिति चोक्तमिति सर्वोऽपि वेदान्तप्रतिपाद्योऽर्थोऽत्र
संक्षिप्य समावेशितो बोध्यः । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥
पुमानिति० अकर्त्ता कर्त्तृत्वासंसृष्टः पुमान् पुरुषः कथम् ईश्वरः भवेत् ? तव मते
ईश्वरत्वं कर्तृत्वनियमितमिति कर्तृत्वाभावे सतीश्वरत्वाभावोऽपि सिद्ध एवेत्यर्थः। नन्वे-
वमीश्वराराधनं मुक्तये क्रियमाणमसङ्गतं स्यान्मुक्तिश्च नोपद्येतेत्यत्राह—क्रिया ज्यो-
तिष्टोमादिरूपा भावना एव भवच्छेदकरी संसारनिवर्त्तिका, वस्तुधीः परमार्थसद्ब्रह्म-
ज्ञानं न भवच्छेदकरी । 'अपामसोमममृता अभूम' इत्यादिना यागस्यैवामृतत्वप्रति-
पादकतोक्तेः । (अतः) नरः जीवः भवच्छिदः संसारनिवर्त्तिकाः क्रियाः ज्योतिष्टो-
मादिकाः कुर्वन् अनुतिष्ठन् एव शान्तमनाः समाहितचित्तः सन् शतं समाः शतं
वर्षाणि जिजीविषेत् जीवितुमिच्छेत् । उक्तञ्च—'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं
समाः' इति ॥ १५ ॥
नातिप्रयोजनम्-नाधिकोऽर्थः । परिग्रहेण-स्वीकारेण, आश्रयदानेनेत्यर्थः । कर्त्ता-
रम्-यज्ञादिकर्त्तारम् । भोक्तारम्-यज्ञफलभूतस्वर्गादिभोक्तारम् । स्तुवन्ती-प्रशं-
इसपर उसने कहा—
अकर्त्ता पुरुष ईश्वर कैसे होगा और वस्तुज्ञानसे ससारकी निवृत्ति किस प्रकार होगी ?
अतः संसार निवर्त्तक कर्म करते हुए ही शान्त मनसे सौ वर्षों तक जीते रहनेकी कामना
करनी चाहिये ॥ १५ ॥
अतः मुझे आपके परिग्रहकी आवश्यकता नही है, फिर भी यदि आप कर्त्ता और
भोक्ता पुरुषकी स्तुति करती हुई किञ्चित्काल पर्यन्त यहाँ वास करना चाहे तो कोई
दोष नही है ।