प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 239, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २१६
उपनिषत्—ततः कदाचित्
कृष्णाजिनाग्निसमिदाज्यजुहूस्स्रुवादि-
पात्रैस्तथेष्टिपशुसोममुखैर्मखैश्च ।
दृष्टा मया परिवृताखिलकर्मकाण्ड-
व्यादिष्टपद्धतिरथाध्वनि यज्ञविद्या ॥ १३ ॥
पुरुषः—ततस्ततः ।
उपनिषत्—ततो मया चिन्तितम् । अपि नामैषा पुस्तकभारवाहिनी
मे ज्ञास्यति तत्त्वम् । अत एवास्याः सन्निधौ कानिचिद्वासराणि नयामि ।
पुरुषः—ततस्ततः ।
णमेवोपनिषदर्थविभावनफलमभिप्रयन्ति न वस्तुतत्त्वावधारणमिति भावः ।
कृष्णाजिनेति० अथ अनन्तरम् मया उपनिषदा अध्वनि मार्गे-कृष्णाजिनम् कृष्ण-
मृगचर्म, अग्नयः गार्हपत्याद्यग्नित्रयी, समिधः होमकाष्ठानि, आज्यं होतव्यं घृतम् ,-
जुहूः पात्रभेदः, स्रुवः, आदिपदात् ध्रुवादिपात्रपरामर्शः, तैः-पात्रैः यज्ञोपकरणैः, इष्टिः
दर्शपूर्णमासेष्टिः, पशुः निरुढपशुः, सोममुखा अग्निष्टोमप्रभृतयो मखाः यागास्तैः-
परिवृता वेष्टिता कर्मकाण्डव्यादिष्टपद्धतिः कर्मकाण्डप्रतिपादितेति कर्त्तव्यताक्रमा
यज्ञविद्या अध्वरमीमांसा दृष्टा अवेक्षिता । मध्येमार्गमागच्छन्त्यहं कर्मकाण्डनिरूपिते-
तिकर्त्तव्यताक्रमां तत्तद्यज्ञसाधनोपबृंहितां मीमांसां साक्षाददृक्षीति तात्पर्यम् । स्पष्ट-
मितरत् । वसन्ततिलकं वृत्तम् ॥ १३ ॥
ततः—यज्ञविद्याऽवलोकनानन्तरम् । पुस्तकभारवाहिनी—नानाविधपुस्तकधरा ।
तत्त्वम्-सारम् । अत एव-अस्या मदीयतत्त्वाभिज्ञत्वादेव । सन्निधौ-पार्श्वे । कानि-
चित्-कतिपयानि । वासराणि-दिनानि ।
उपनिषद्—अनन्तर कभी—
कृष्णमृगचर्म, समित्, अग्नि, घी, जुहू, स्रुव आदि पात्र तथा इष्टि पशुसोम आदि यागके
साथ कर्मकाण्डोक्त पद्धत्यनुसारिणी मीमांसा मुझे रास्तेमें मिली ॥ १३ ॥
पुरुष—तब ?
उपनिषद्—अनन्तर मैने सोचा कि क्या यह पुस्तकभारवाहिनी मेरा तत्त्व समझती
है ? इसलिये कुछ दिन इसीके पास व्यतीत किये जांय ।
पुरुष—तब ?