सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 238, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 238

२१८ प्रबोधचन्द्रोदयम्
उपनिषत्—स्वामिन्,
नीतान्यमूनि मठचत्वरशून्यदेवा-
गारेषु मूर्खमुखरैः सह वासराणि ।
पुरुषः—अथ ते जानन्ति किमपि भवत्यास्तत्त्वम् ।
उपनिषत्—न खलु । किन्तु
ते स्वेच्छया मम गिरां द्रविडाङ्गनोक्त-
वाचामिवार्थमविचार्य विकल्पयन्ति ॥ १२ ॥
तेन केवलं तेषां परार्थग्रहणप्रयोजनमेव मद्विचारणम् ।
पुरुषः—ततस्ततः ।
नीतानीति० अमूनि प्रवासकालिकानि वासराणि दिनानि मठचत्वरशून्यदेवा-
गारेषु मन्दिरजनसामान्यवासस्थलरिक्तदेवायतनेषु मूर्खमुखरैः निरक्षरवाचालैः सह
नीतानि गमितानि ।
तत्त्वम्-रहस्यम् ।
ते स्वेच्छयेति० ते मूर्खमुखराः स्वेच्छया यदृच्छया मम गिराम् मदुक्तीनाम् ।
द्रविडाङ्गनोक्तवाचाम् इव द्रविडदेशवासिललनाजनवचनानाम् इव अर्थम् अविचार्य
विना विचारं विकल्पयन्ति, इदमत्र तात्पर्यमिदं वेति सन्दिहते । यथा कश्चिदुत्तरा-
खण्डवासी दाक्षिणात्यललनावचांसि श्रुत्वा तदर्थानभिज्ञतया इयमिदमभिप्रैति, इदं
वाऽभिप्रैति' इति विकल्पयति तद्वदिमेऽपि मूर्खमुखराः पामरा ममोक्तिषु नाना-
विकल्पनारचयन्तीत्याशयः । द्रविडस्त्रियः पुरुषापेक्षयाऽस्पष्टवाचो भवन्तीति ता एव
दृष्टान्तिताः ॥ १२ ॥
तेषाम्-मूर्खमुखराणाम् । परार्थग्रहणप्रयोजनम्-परकीयधनापहरणार्थम् । मद्वि-
चारणम्-मदर्थभावनम् । ते हि बहिर्मुखाः केवलं पाण्डित्यख्यापनेन परकीयधनाहर-
उपनिषत्—स्वामिन्,
ये दिन हमने मठ, चत्वर तथा शून्य देवालयोंमें मुखर मूर्खों के साथ बिताये ।
पुरुष—क्या वह आपके तत्त्वकी कुछ जानकारी रखते हैं ।
उपनिषत्—नहीं, किन्तु—वे स्वेच्छासे मेरी उक्तियोंका अर्थ करते हैं जैसे लोग
द्रविडाङ्गनाओंकी उक्तिका अर्थ नहीं समझकर कुछ कल्पना कर लेते हैं ॥ १२ ॥
वे केवल परकीय अर्थ जाननेके लिये ही मेरे सम्बन्धमे विचार करते हैं ।
पुरुष—तब ?