प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 231, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २११
श्रद्धा—आदिष्टाहं स्वामिना यथा विवेकं द्रष्टुमिच्छामि ।
शान्तिः—तत्त्वरतां भगवतीति ।
श्रद्धा—तदहं राजसन्निधिं प्रस्थिता ।
शान्तिः—अहमपि महाराजेनोपनिषदमानेतुमादिष्टा । तद्भवतु
स्वनियोगं संपाद्यावः ।
( इति निष्क्रान्ते )
प्रवेशकः ।
( ततः प्रविशति पुरुषः )
पुरुषः—( विचिन्त्य । सहर्षम् ) अहो माहात्म्यं देव्या विष्णुभक्तेः ।
यत्प्रसादान्मया,
तीर्णाः क्लेशमहॉर्मयः परिहृता भीमा ममत्वभ्रमाः
शान्ता मित्रकलत्रबन्धुमकरग्राहग्रहग्रन्थयः ।
त्वरताम्-शीघ्रतां करोतु । राजसन्निधिम्-विवेकपार्श्वम् ।
स्वनियोगम्-आत्मनः कर्त्तव्यम् । त्वं विवेकस्य पार्श्वं याहि, अहं चोपनिष-
दन्तिकं व्रजाम्येवमावां निजं निजं कृत्यं प्रति सयत्ने भवाव इत्याशयः ।
माहात्म्यम्-प्रभावातिशयः । यत्प्रसादात्-यदीयानुग्रहात् । मया-पुरुषेण ।
तीर्णा इति० क्लेशमहॉर्मयः अविद्यास्मितादिक्लेशतरङ्गाः तीर्णाः उत्तीर्णाः, भीमाः
बन्धनसाधनतया भीषणा ममत्वभ्रमाः ममतारूपा आवर्त्ताः परिहृताः लङ्घिताः,
श्रद्धा—स्वामीसे आज्ञा पाकर मैं विवेक से मिलना चाहती हूँ ।
शान्ति—तब तुम शीघ्रता करो।
श्रद्धा—तो अब मैं राजा के पास चलती हूँ ।
शान्ति—मुझे भी महाराजने उपनिषद्को बुला लानेको आज्ञा दी है । तो हम दोनों
ही अपना अपना कर्त्तव्य करें ।
( दोनों जाती है )
प्रवेशक ।
( पुरुषका प्रवेश )
पुरुष—( सोचकर, सहर्ष ) देवी विष्णुभक्तिका माहात्म्य धन्य है । जिसके प्रसादसे
हमने—
क्लेशतरङ्गोंको पार किया, भयानक ममत्वभ्रमको दूर छोड़ा, मित्र कलत्र बन्धुरूप