सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 230, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 230

२१० प्रबोधचन्द्रोदयम्
नया प्रोक्तथाभिहितः । स्वामिन् , किमेवमेभिर्विषयामिषग्रासगृध्रुभिरास्था-
निकैः पुनरपि तेष्वेव तथैव विषमविषयाङ्गारेषु निपात्यमानमात्मानं नाव-
बुध्यसे । ननु भोः,
भवसागरतारणाय यासौ नचिराद्योगरिस्त्वयाश्रिता ।
अधुना परिमुच्य तां मदात्कथमङ्गारनदीं विगाहसे ॥ ७ ॥
शान्तिः—ततस्ततः ।
श्रद्धा—ततस्तद्वचनमाकर्ण्य स्वस्ति विषयेभ्य इत्यभिधायावधीरिता
मधुमती ।
शान्तिः—साधु साधु । अथ क्व प्रस्थितास्ति भवती ।
क्रोधावेशकषायितनयनम्-क्रोधोदयवशाद्रक्तदृशा । अभिहितः-उक्तः पुरुष इति
शेषः । विषयामिषग्रासगृध्नुभिः-सांसारिकसुखोपभोगरूपमांसग्राहलुब्धैः । आस्था-
निकैः-सभाधूर्तेः । तथैव-पूर्ववत् । विषमविषयाङ्गारेषु-भयानकविषयसन्तापेषु ।
निपात्यमानम्-आकृष्य नीयमानम् । नावबुध्यसे-नावैषि ।
भवसागरेति० भवसागरस्य संसाररूपसमुद्रस्य तारणाय उद्धाराय याऽसौ
योगतरिः ज्ञानरूपा नौका त्वया पुरुषेण नचिरात् अधुनैव आश्रिता अवलम्बिता,
अधुना सम्प्रति तां परिमुच्य विहाय अङ्गारनदीं विषयज्वालापूर्णतया संसाररूपां
वह्निधाराम् कथं केन प्रकारेण विगाहसे अवतरसि । संसारसागरात्परं पारं गन्तुं
भवता सम्प्रत्येव ज्ञाननौकारूढ़ा, तां विहाय भोगप्रदसौख्यवर्त्मानुधावनं भवतो
ज्ञानपरिपन्थतयाऽङ्गारनदीप्रवेशतुल्यं जायते तदिदं कथमपि मा कृथाः, आपात-
सुरसस्वादेषां भोगानामिति भावः ॥ ७ ॥
स्वस्ति विषयेभ्यः-विसृज्यन्ते भोगाः । अवधीरिता-तिरस्कृता । प्रस्थिता-
चलिता ।
कहा—स्वामिन् , क्यों फिर इन विषयामिषलोभी गृध्रोंसे पुनः अपनेको उन्हीं विषम
विषय ज्वालायुक्त संसारमें पात्यमान नहीं देख रहे हो ? अजी,
भवसागर पार करनेके लिये अभी अभी तुम जिस योग नौकापर आरूढ हुए हो
अब उसे छोड़ किस प्रकार अङ्गार नदीमें डूबने जारहे हो ? ॥ ७ ॥
शान्ति—इसके बाद ?
श्रद्धा—उसकी बातें सुनकर विषयोंको नमस्कार करके मधुमती विद्याको तिरस्कृ
कर दिया ।
शान्ति—साधु साधु ! अब तुम कहाँ चली हो ।