सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 174, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 174

१५६ प्रबोधचन्द्रोदयम्

राजा—इहोपविश्यताम् । ( इति स्वसंनिधावुपवेशयति )
संतोप:—( सविनयमुपविश्य ) एष प्रेष्यजनः । आज्ञाप्यतां देवेन ।
राजा—विदितप्रभाव एव भवान् । तदलमात्र विलम्बेन । लोभं जेतुं
वाराणसीं प्रतिष्ठीयताम् ।
संतोषः—यदाज्ञापयति देवः । सोऽहम्—
नानामुखं विजयिनं जगतां त्रयाणां
देवद्विजातिवधबन्धनलब्धवृत्तिम् ।
रक्षोधिनाथमिव दाशरथिः प्रसह्य
निर्जित्य लोभमवशं तरसा पिनष्मि ॥ २४ ॥
( इति निष्क्रान्तः )
एष प्रेष्यजनः—दासोऽयमुपस्थितः इत्यर्थः । आज्ञाप्यताम्-आदिश्यताम् ।
कर्तव्यमिति शेषः, देवेन-भवता ।
विदितप्रभावः—अवगतपराक्रमः । अलमत्र विलम्बेन-कालक्षेपो वृथा । वारा-
णसी-काशी । अत्र वाराणसीमिति द्वितीया प्रतिशब्दमेकमध्याहृत्योपपाद्या ।
नानामुखमिति० नानामुखम् बहुविषयम् पक्षे दशवदनम् त्रयाणाम् जगताम्
विजयिनम् पराक्रमेण दमयितारम् ( इदं पक्षद्वयेऽपि समानम् ) देवाः अमराः
द्विजातयो विप्राश्च तेषाम् वधे मारणे बन्धने संयमने च लब्धवृत्तिम् लोभो देवान्
विप्रांश्चापि स्वप्रवणीकरणद्वारा वधे बन्धने च योजयति रावणस्तु राक्षसत्वे तेषां
वधबन्धनेऽकरोत् । दाशरथिः राम इव अहं सन्तोषः अवशम् किमपि कर्तुमप्रभवन्तं
रक्षोधिनाथं रावणमिव लोभं प्रसह्य बलपूर्वकं तरसा वेगेन निर्जित्य पराजित्य
पिनष्मि चूर्णयामि । उपमयाऽनया यथा सगोत्रस्य रावणस्य वधः कृतो दाशरथिना
तथा सानुबन्धस्य लोभस्य पराजयः सन्तोषेण करिष्यत इति ध्वन्यते ॥ २४ ॥
राजा—यहां बैठो । ( अपने समीप बैठाता है )
सन्तोष—( नम्रतापूर्वक बैठकर ) यह दास उपस्थित है, श्रीमान् आज्ञा दें ।
राजा—आपके प्रभावको मैं जानता हूं । देर करना व्यर्थ है । लोभको जीतनेके लिये
आप वाराणसी जांय ।
सन्तोष—महाराजकी जो आज्ञा । मैं—
नानामुख ( दशमुख-बहुप्रकारक ) त्रिलोकविजयी, देव-द्विजके वधबन्धन आदि
व्यापार वाला इस लोभको-रामने रावणको जैसे जीता-वैसे जीतकर पीस दूंगा ॥ २४ ॥
( जाता है )