प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 171, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १५३
सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ॥ १९ ॥
( आकाशे ) अरे मूर्ख, लुब्ध, दुरुच्छेदः खल्वयं भवतो व्यामोहः ।
तथाहि—
समारम्भा भग्नाः कति कति न वारांस्तव पशो
पिपासोस्तुच्छेऽस्मिन्द्रविणमृगतृष्णार्णवजले ।
तथापि प्रत्याशा विरमति न ते मूढ शतधा
विदीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ २० ॥
वासस्य च चिन्तायां निवृत्तायामपि ) कृपणाः दयनीया इमे वराकाः तदपि तथापि
धनिनां द्वारि सन्तापं तत्कृतापमानजन्यपरितापं सहन्ते भुञ्जते । आश्चर्यमिदं यदमी
वराका निर्वाहसाधनेऽक्लेशमासाद्यमानेऽपि धनिकद्वारि धनाशया तत्कृतमपमानं
सोढुमवतिष्ठन्त इति भावः । शिखरिणीवृत्तम् , लक्षणं प्रागुक्तम् ॥ १९ ॥
मूर्ख-अज्ञान, लुब्ध-लोभग्रस्त, दुरुच्छेदः-छेत्तुमशक्यः, व्यामोहः-भ्रमः ।
समारम्भा इति० पशो अज्ञानपराहत अस्मिन् द्रविणमृगतृष्णार्णवजले धनमृग-
मरीचिकासागरसलिले पिपासोः पातुमिच्छोः तव भ्रान्तस्य समारम्भाः प्रयासाः
कति कति वारान् कतिधा न भग्नाः विफलतां गताः, इदं धनमृगतृष्णाजलं तृप्ति-
साधनं मत्वा तत्पाने प्रवृत्तस्य भ्रान्तरय तव प्रयासाः कतिधा न विफलतां गताः ?
अनेकेषु प्राग्जन्मसु त्वमिदं मृगतृष्णाजलं पीत्वा तृप्तिं कामयमानः प्रायस्थोऽथापि
तव तृप्तिर्नाभूत्तस्य मिथ्यात्वेन तृप्तिकार्याक्षमत्वादित्याशयः । तथाऽपि वैफल्यस्या-
नेकशोऽनुभूतत्वेऽपि, मूढ-अज्ञानपराहत, ते तव प्रत्याशा प्रचुरद्रव्यावाप्त्यभिलाषः
न विरमति न निवर्त्तते, यत् चेतः तव हृदयम् शतधा न विदीर्णम् विशीर्णम् ( तत्
तव हृदयम् ) नियतम् निश्चयेन अशनिग्रावघटितम् वज्रशिलानिर्मितम् । अन्य-
थैतादृशपुनःपुनर्जायमानप्रवृत्तिव्यासङ्गं प्राप्य न स्थिरं तिष्ठेदित्याशयः । वृत्तमनु-
पद्मेवोक्तम् ॥ २० ॥
सुखद शय्या सर्वत्र सुलभ है, फिर भी कृपणजन धनिकोंके दरवाजे पर सन्ताप सहा
करते है ॥ १९ ॥
( आकाशमें ) अरे मूर्ख लुब्ध, तुम्हारा यह भ्रम दुरुच्छेद है, क्योंकि—
धनमृगतृष्णाजलसे प्यास बुझाने की तुम्हारी चेष्टा कितनी बार व्यर्थ हो चुकी है फिर
भी तुम्हारी आशा नहीं छूटती । अरे मूढ, यदि इससे तुम्हारा हृदय नहीं फटा तो निश्चय
यह वज्रसे बना है ॥ २० ॥