प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 170, कुल 274 में से
संदर्भ में पढ़ें१४२ प्रबोधचन्द्रोदयम्
क्षमा—देव, क्रोधस्य विजयादेव हिंसापारुष्यमानमात्सर्यादयोऽपि
विजिता एव भविष्यन्ति ।
राजा—तत्प्रतिष्ठतां भवति विजयाय ।
क्षमा—यदाज्ञापयति देवः ।
( इति निष्क्रान्ता )
राजा—( प्रतीहारीं प्रति ) वेदवति, आहूयतां लोभस्य जेता संतोषः ।
प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि )
( इति निष्क्रम्य संतोषण सह प्रविशति )
संतोषः—( विचिन्त्य सानुक्रोशम् )
फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
हिंसा-वधोद्योगः, पारुष्यम्-कठोरता, मानः-दर्पः, मात्सर्यम्-परगुणासहिष्णुता ।
सर्वेषाममीषां क्रोधमूलतया कारणनाशे कार्यनाशनियमात् क्रोधे जिते तेषामपि
जयो जात एवेति भावः ।
फलमिति० प्रतिवनम् सर्वेषु वनेषु अखेदम् विनाऽऽयासम् स्वेच्छालभ्यम् यदृच्छा-
प्राप्यम् क्षितिरुहाम् वृक्षाणाम् फलम् (एतेनाहारचिन्तानिरासः) स्थाने स्थाने यत्र तत्र
पुण्यसरिताम् पवित्रसरोवराणाम् शिशिरमधुरम् शीतलं मिष्टञ्च पयः जलं (एतेन पेय-
जलचिन्तानिवृत्तिः) सुललितलतापल्लवमयी मनोज्ञवल्ली किसलयनिर्मिता मृदुस्पर्शा
कोमला शय्या शयनभूमिः ( एतेनावासचिन्ताव्युदासः) (एवमाहारस्य पेयस्या-
क्षमा—देव, क्रोधपर विजय पालेनेसे ही हिंसा, पारुष्य, मान, मात्सर्य आदि भी
विजित हो जाते हैं ।
राजा—तब आप विजयके लिये प्रस्थान करें ।
क्षमा—जैसी आज्ञा महाराज की ।
( जाती है )
राजा—( प्रतीहारीसे ) वेदवति, लोभके विजेता सन्तोषको बुलाओ ।
प्रतीहारी—महाराजकी जैसी आज्ञा ।
( जाकर सन्तोषके साथ पुनः प्रवेश करती है )
सन्तोष—( सोचकर, खेदके साथ ) प्रत्येक वनमें वृक्षोंके फल बिना यत्नसे मिल जाते
हैं, पुण्य नदियोंके मधुर-शीतल जल, प्रत्येक स्थानपर मिलता है । लतापल्लवनिर्मित