प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 124, कुल 274 में से
संदर्भ में पढ़ें१०६ प्रबोधचन्द्रोदयम्
लोकानां सुगतिं दुर्गतिं च । क्षणिकाः सर्वे संस्काराः । नास्त्यात्मा स्थायी ।
तस्माद्भिक्षुषु दारान्नाक्रमत्सु नेर्षितव्यम् । चित्तमलं हि तद्यदीर्ष्यानाम ।
( नेपथ्याभिमुखमवलोक्य ) श्रद्धे, इतस्तावत् ।
( प्रविश्य श्रद्धा )
श्रद्धा—आज्ञापयतु राजकुलम् । ( आणवेदु लाउलम् )
भिक्षुः—उपासकान्भिक्षूंश्च चिरमालिङ्ग्य स्थीयताम् ।
श्रद्धा—यदाज्ञापयति राजकुलम् । ( जं आणवेदि लाउलम् ) ( इति
निष्क्रान्ता )
शान्तिः—सखि, इयमपि तामसी श्रद्धा ।
करुणा—एवमेतत् । ( एवं णेदम् ) ।
क्षपणकः—( भिक्षुमालोक्योच्चैःशब्दम् ) । अरेरे भिक्षुक, इतस्तावत् ।
किमपि पृच्छामि । ( अलेले भिक्खुअ, इदो दाव । किंपि पुच्छिस्सम् )
नास्त्यात्मा स्थायी—सर्वेषां भावानां क्षणिकत्वेनात्मनोऽप्यस्थायित्वं निवेदितमेव,
दारान्–स्त्रियः, उपासकानाम् इति शेषः । आत्मनोऽस्थायित्वे येनात्मना परपुरुषोप-
सर्पणं कृतं स तु गतं एवेति वृथा कोपं स्त्रीणां भिक्षुरतौ मा कारीति भावः । चित्त-
मलम्–मनोमालिन्यकरम् , तच्च ज्ञानपरिपन्थीति तन्न कार्यमिति भावः । उपासकान्–
श्रद्धायुक्तान्गृहिणः, चिरम्–बहुकालपर्यन्तम् । तामसश्रद्धावत्त्व एव गृहस्था भिक्षुभ्यो
निजदारानुपहिरण्यन्तीति तदुपायमेवान्येन वाक्येन कृतवानयं भिक्षुरिति तात्पर्यम् ।
क्षपणकः—जैनागममतावलम्बी दिगम्बरः ।
करता हूं । सभी सस्कार क्षणिक हैं । स्थायी आत्मा नहीं हैं । अतः भिक्षु यदि स्त्रियों पर
आक्रमण करे तो ईर्ष्या मत करना । ईर्ष्या चित्तका मल है । (नेपथ्य की ओर देखकर)
श्रद्धे, जरा इधर आना ।
(श्रद्धाका प्रवेश)
श्रद्धा—राजकुलका क्या आदेश है ?
भिक्षु—उपासकों तथा भिक्षुओंसे सदा लिपटी रहो ।
श्रद्धा—राजकुलकी जैसी आज्ञा । (जाती है)
शान्ति—सखि, यह भी तामसी श्रद्धा है ।
करुणा—यही बात है ।
क्षपणक—(भिक्षुको देखकर, जोरसे) अरे ओ भिक्षुक, इधर आना । कुछ तुम्हैं
पूछूँगा ।