सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 123, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 123

तृतीयोऽङ्कः १०५
क्रीडानन्दभरैर्व्रजन्ति विलसज्ज्योत्स्नोज्ज्वला रात्रयः ॥ ६ ॥
करुणा—सखि, क एष तरुणतालतरुप्रलम्बो लम्बमानकषायपिशङ्ग-
चीवरो मुण्डितसचूडमुण्डपिण्ड इत एवागच्छति । (सहि, को एसो तरुण-
तालतलुप्पलम्बो लम्बन्तकसासपिसङ्गचिउरो मुण्डिदसचूडमुण्डपिण्डो इदो जेव्व
आअच्छदि)
शान्तिः—सखि, बुद्धागम एषः ।
भिक्षुः—(आकाशे) भो भो उपासकाः भिक्षवश्च, श्रूयतां भगवतः
सुगतस्य वाक्यामृतम् । (पुस्तकं वाचयति) पश्याम्यहं दिव्येन चक्षुषा
प्रीतिकृते इति विश्वासपूर्वकम् क्लृप्ताङ्गदानोत्सवक्रीडानन्दभरैः सिद्धशरीरसमर्पणजन्य-
सुरतानन्दसमूहैः युवतिभिरारूढयौवनाभिरन्यनारीभिः उपासिताः विलसज्ज्योत्स्नो-
ज्ज्वलाः स्फुटचन्द्रधवलाः रात्रयः व्रजन्ति । अस्माकं भिक्षूणां सौभाग्यमिदं यत्सुन्दर-
मावासस्थानं लभामहे, यथेच्छं वारनारीरालिङ्गामः, उचिते समयेऽभिमतं भोजनं
प्राप्नुमः, कोमलप्रच्छदपटं शयनीयमुपयुञ्ज्महे, युवतिभिः परस्त्रीभिः साधूनां सेवया
भगवान् प्रसीदतीति विश्वासमन्तराधाय स्वयमागत्य रतियाचनायां क्रियमाणायां
चन्द्रधवलासु निशासु ताभिः सह रमामहे इति । बौद्धमते बौद्धपरिव्राजकलिङ्गपूजां
स्त्रियो निजपत्यनुमत्यैव कुर्वन्तीति प्रसिद्धिः । एतेनास्माकं भिक्षूणां भोगेन सहैव
मोक्षोऽप्युपपद्यत इति परमं सौभाग्यमस्माकमन्येषान्तु न तथेति स्वमते व्यतिरेक
उक्तः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ९ ॥
तरुणतालतरुप्रलम्बः-प्रौढतालवृक्षदीर्घः । लम्बमानम् आस्तीर्यमाणम् कषाय-
पिशङ्गरक्तं कषायपिशङ्गवर्णं चीवरं बृहदाकृतिपरिधानं यस्य तादृशः । मुण्डितसचूड-
मुण्डपिण्डः-कारितसशिखशिरोवपनः ।
उपासकाः-बौद्धमते श्रद्धालवो गृहस्थाः । वाक्यामृतम्-वचनसुधाम् , वचनानां
सर्वविधसन्तापहरत्वेन सुधात्वमुपचरितम् । सुगतिम्-सत्कर्म । दुर्गतिम्-दुष्कर्म ।
तरह चन्द्रिकाधवल रात्रियों आनन्दमें कटतीं है ॥ ९ ॥
करुणा—यह कौन है जो ताडकी तरह लम्बा, लटकता हुआ केसरिया चोगा पहने
शिखा समेत सिर घुटवाये इधर ही आरहा है ।
शान्ति—सखि, यह बुद्धागम है ।
भिक्षु—(आकाशकी ओर) अरे ओ उपासको और भिक्षुओं, भगवान् सुगतके
वचनामृत सुनलो । (पुस्तक बांचता है) मैं दिव्य दृष्टिसे लोगोंकी सुगति तथा दुर्गति देखा