प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 121, कुल 274 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः १०३
पासण्डाणं वि तमसः सुद्धा सद्धेति । तेण एसा तामसी सद्धा भविस्सदि )
शान्तिः—( समाश्वस्य ) सखि, एवमेवैतत् । तथाहि—
दुराचारा सदाचारां दुर्दर्शा प्रियदर्शनाम् ।
अम्बामनुसरत्येषा दुराशा न कथंचन ॥ ७ ॥
तद्भवतु तावत् । सौगतालयेष्वप्यसावन्विष्यताम् ।
( शान्तिकरुणे परिक्रामतः )
( ततः प्रविशति भिक्षुरूपः पुस्तकहस्तो बुद्धागमः )
भिक्षुः—( विचिन्त्य ) भो भो उपासकाः,
सर्वे क्षणक्षयिण एव निरात्मकाश्च
यत्रार्पिता बहिरिव प्रतिभान्ति भावाः ।
अन्या चेयं श्रद्धा तामसी, तन्नामसाम्येन स्वमातुः पातमुत्प्रेक्ष्यालं भयेनेति तात्पर्यम् ।
एवमेवैतत्-नामसाम्यमेवेदम् , इयमत्र दृश्यमाना तामसी श्रद्धैव, न मम मा-
तेति बोध्यम् ।
दुराचार्येति० दुराचारा । अशोभनाचारा दुर्दर्शा भीषणाकृतिः दुराशा नीचा इयम्
तामसी श्रद्धा एषा सदाचाराम् चारित्रशुद्धाम् प्रियदर्शनाम् रमणीयाकृतिमनोहराम्
अम्बाम् मम मातरं सात्त्विकीं श्रद्धाम् कथञ्चन केनापि प्रकारेण नैवानुसरति नानु-
करोति । केवलं नामैव समानं नान्यत् किमप्यतो न मम मातेयमिति भावः ॥ ७ ॥
सौगतालयेषु—बौद्धगृहेषु असौ-सात्त्विकी श्रद्धा ।
पुस्तकहस्तः—हस्तधृतपुस्तकः । बौद्धा बुद्धोपदेश सङ्कलितं धर्मग्रन्थं सदा हस्ते
धारयन्तीति रूढेयेत्थमुक्तम् । उपासकाः-बौद्धागमविचारतत्पराः ।
सर्व इति० सर्वे भावाः पदार्थाः क्षणक्षयिणः क्षणभङ्गुराः निरात्मकाः असन्तश्च,
है कि हिंसाके मुहसे पाखण्डियोंके पास भी तामसी श्रद्धा रहती है । यह वही तामसी
श्रद्धा होगी ।
शान्ति—( धीरज धर कर ) सखि, यही बात है, क्योंकि—
अभागी यह दुराचारा तथा दुर्दर्शना हमारी सदाचारा तथा प्रियदर्शना अम्बाका
अनुसरण किसी तरह भी नही कर रही है ॥ ७ ॥
अच्छा, तो तबतक सौगतालयमे उसकी खोज की जाय । (शान्ति और करुणा चलती है)
( भिक्षुरूप पुस्तकहस्त बुद्धागमका प्रवेश )
भिक्षु—( सोचकर ) अरे ओ उपासको,
जिस धीसन्ततिमे अर्पित होनेसे सभी क्षणक्षयी तथा शून्यात्मकभाव बहिःस्थितकी