प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 117, कुल 274 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ६६
द्यदेहच्छविः उल्लुञ्चितचिकुरमुक्तवसनदुर्दर्शनः शिखिशिखण्डपिच्छ-
काहस्त इत एवाभिवर्त्तते । (सहि, पेक्ख पेक्ख । जो एसो गलन्तमलपिच्छि-
लबीहत्सदुप्पेक्खदेहच्छवी उल्लुंचिचचिउरमुक्कवसणदुद्दंसणो सिहिसिहण्डपिच्छ-
आहत्थो इदो जेव्व अहिवट्टदि )
शान्तिः—सखि, नायं राक्षसः । निर्वीर्यः खल्वयम् ।
करुणा—तर्हि क एष भविष्यति । (ता को एसो भविस्सदि )
शान्तिः—सखि, पिशाच इति शङ्के ।
करुणा—सखि, प्रस्फुरन्महामयूखमालोद्भासितभुवनान्तरे ज्वलति
प्रचण्डमार्त्तण्डमण्डले कथं पिशाचानामवकाशः ? (सहि, पप्फुरन्तमहामऊ-
हमालोब्भासिअभुअणन्तरे जलदि प्पचण्डमत्तण्डमण्डले कहं पिसाआणं अवआसो ? )
देहच्छविः कायकान्तिर्यस्य तादृशः । उल्लुञ्चितचिकुरः लुञ्चितकेशः, मुक्तवसनः
नग्नश्च अत एव दुर्दर्शनः दर्शनायोग्यः । शिखिनो मयूरस्य शिखण्डिका पिच्छः
हस्ते यस्य तादृशः । इत एवाभिवर्त्तते-इमामेव दिशमागच्छति । एतद्वर्णनं जैन-
साधोः-तेषां मते स्नानं निषिद्धं तथाकरणे जीवविनाशसंभवात्, कचोल्लुञ्चनं
विवसनत्वं चाचारपरिप्राप्तम्, शिखिपिच्छञ्चते मार्गावस्थितसूक्ष्मजन्तूनामपासनाय
बिभ्रतीति तत्परिचायकेऽत्र वाक्ये सर्वमुपात्तम् ।
निर्वीर्यः = पौरुषबलरहितः ।
पिशाचः-प्रेतः । शङ्के-उत्प्रेक्षे । मलदिग्धत्वविवसनत्त्वादिमूलेयमुत्प्रेक्षा ।
प्रस्फुरदिति० प्रस्फुरतः प्रकटस्य महामयूखस्य किरणस्य मालया समूहेन उद्भा-
सितं भुवनान्तरं धरित्र्या अन्तरालं येन तादृशे । ज्वलति-दीप्यमाने । प्रचण्ड-
मार्त्तण्डमण्डले-प्रखरसूर्य्यमण्डले । कथं पिशाचानामवकाशः-केन प्रकारेण प्रेतानां
प्रचारस्यावसरः, ते हि तमसि सर्पन्ति ज्वलति चाधुना मध्यन्दिनतरणिः प्रखरैः स्वैः
करैस्तदयं पिशाचो न संभवतीति भावः ।
रही है, बाल नोंच दिये गये हैं, कपडा नही है, हाथ में मयूरपिच्छिका है ।
शान्ति-सखि, यह राक्षस नही है, यह निर्वीर्य है ।
करुणा-तो फिर यह कौन है ?
शान्ति-सखि, पिशाच मालूम पड़ता है ।
करुणा-सखि, किरणों से भुवनको उद्भासित करनेवाले प्रचण्ड सूर्यमण्डलके सामने
पिशाच कैसे होगें ?