पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 99, कुल 337 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:
४४ व्यस्तत्रैराशिकम्
यत्काञ्चनं हेम षोडशवर्णकं तस्य सम्बन्धिनां सुवर्णानां कर्षाणां पलचतुर्भागानां
शतमष्टषष्टिभिरुपेतं यद्येकादशवर्णकैः सुवर्णैः व्यवस्थाप्यते तदा कियती सुवर्णसङ्ख्या जायते ।
अधमहेमप्रक्षेपाद् वर्णपकर्षो भवति तुलावृद्धिश्च । यदि वा वर्णशब्देनात्र माषकोऽभिधीयते,
तेन षोडशभिर्माषैः सुवर्णस्थापनायां काञ्चनशतमष्टषष्टिसंयुक्तम् एकादशमाषकसुवर्ण-
कल्पनया कियत् सुवर्णं स्यात् तथा परिवर्तनात् कियदिति । भाण्डप्रतिभाण्डकं च मूल्योद्-
भावनेन स्थितमिति नायासस्य विषयः । त्रैराशिकमेतत् पञ्चराशिकविषयस्तु स इति वा ।
स्थापनम्— १६ । १६८ । ११ ।
सूत्रोक्तकर्मणा लब्धं सुवर्णा २४४ माषा ५ रक्तिका ४ भागः ११/१ ।१
चतुर्थोदाहरणम्--
त्रिकनवककम्बलानां विष्कम्भायामतः शतद्वितये ।
द्विकषट्ककम्बलाः कति जायन्ते कथ्यतामाशु ॥ ३७ ॥
यावता सूत्रेण त्रिहस्तपार्श्वा नव(हस्त)दैर्ध्या द्वे शते कम्बला भवन्ति, तावता सूत्रेण
द्विहस्तपार्श्वाः२ षड्हस्तदैर्ध्याः कम्बलाः कति भवन्ति ।
अत्र विष्कम्भायामयोर्वधान् मानपरिच्छेदः३, तेन त्रिकनवकवधः सप्तविंशतिः, द्विक-
षट्कवधो द्वादश४ । सप्तविंशतिमानस्य ज्ञातमेयसङ्ख्यात्वात् प्रमाणत्वं, द्वादशकस्य विपर्यासाद्
इच्छात्वं, ज्ञाता सङ्ख्या मध्यमो राशिः ।
स्थापनम्— २७ । २०० । १२ ।
सौत्रेण कर्मणा लब्धं कम्बलाः ४५० ।
पञ्चमोदाहरणम्--
सार्द्धद्वादशवर्णकसुवर्णशतमष्टमाषकोपेतम् ।
दत्वाऽऽप्यते कियद् वद सचरणदशवर्णकं कनकम् ॥ ३८ ॥
सार्द्धद्वादशवर्णकानां सुवर्णानां काञ्चनकर्षाणां शतमष्टभिर्माषकैरुपेतं दत्त्वा सपाद-
दशवर्णकं कनकं कियदाप्यते ।
अत्र सार्द्धद्वादशवर्णक(कनकं) मानम्, तस्य स्वरूपमेव मेयपरिच्छेदः । सचरणदशवर्णक-
कनकं मानान्तरम् । सुवर्णशतमष्टमाषकोपेतं ज्ञातमेयप्रमाणं मध्यमो राशिः ।
स्थापनम्—भागानुबन्धेन सवर्ण्य २५/२ । २०१/२ । ४१/४ ।
लब्धं सुवर्णाः १२२, माषाः ८, रक्तिकाः ४, भागाः ३६ छे ४१ ।
१ १/११ । २ त्रिहस्त° । ३ मानपरिछेदाः । ४ द्वादश द्वितयं ।