पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 100, कुल 337 में से
संदर्भ में पढ़ेंपञ्चसप्तनवराशिकम् ४५
पञ्चसप्तनवराशिके करणसूत्रमार्या—
नीते फलेऽन्यपक्षं विभजेद् बहुराशिपक्षमितरेण ।
छेदानां व्यत्यासं कृत्वाऽभ्यासं च राशीनाम् ॥ ४५ ॥
इहाप्युदाहरणवृत्तान्तेन लक्षणनिर्देशः । यदा ज्ञेयराशिर्न फलशब्देनोक्तः अपि तु
धनप्रयोगव्यवहारे आभाषितमासादिकालेन आभाषितप्रयुक्तशतादिमूलविशेषादाभाषित-
पञ्चकादिलाभः फलं, विक्रयेऽपि, पूर्वं व्यवहारेषु सारूप्याद् गणितसिद्धेः, तत्र त्रैराशिके¹
प्रमाणमध्यमराशी एकः पक्षः, अन्यो राशिरन्यः । पञ्चराशिके धनप्रयोगादाज्ञात एकः पक्षः,
अज्ञातो द्वितीयः । एतयोर्यत्र लाभादिकं फलं तिष्ठति तत्पक्षान्तरं नयेत् । ज्ञातपक्षे स्थितो
लाभः अज्ञातैकतरपक्षं नेयः, अज्ञातकालमूल्यान्यतरपक्षस्थितलाभः ज्ञातपक्षे न्यसनीयः² । एवं
कृते सति बहवो राशयो य