सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 66, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 66

दलितम् ७० । सङ्कलितम्¹ ३२४०, अष्टघ्नं २५९२०, सैकं २५९२१, मूलं १६१, व्येकं
१६०, दलितम् ८० । सङ्कलितम्¹ ४०६५, अष्टघ्नं ३२५६०, सैकं ३२५६१, मूलं १८१, व्येकं
१८०, दलितम् ६० । सङ्कलितम्¹ ५०५०, अष्टगुणं ४०४००, सैकं ४०४०१, मूलं २०१, व्येकं
२००, दलितम् १०० ।
सैकं व्यवकलितपदं² सङ्कलितपदे निधाय सङ्गुणयेत् ।
पदयोर्विवरेण भवेद्दलीकृतं व्यवकलितशेषम् ॥ १६ ॥
सङ्कलितात्सङ्कलितशुद्धौ शेषजिज्ञासायां यस्य सङ्कलिताद्यस्य सङ्कलितं शोध्यं तयोः पृथक्
सङ्कलितधने आनीयान्तरे क्रियमाणे प्रयत्नगौरवं स्यादिति एकेन तन्त्रेण करणार्थोऽयमारम्भः ।
पदे द्वे, सङ्कलितपदं व्यवकलितपदं च । व्यवकलितमपि सङ्कलितपदमेव तेन प्रकारेण सङ्कलित-
धनस्य सङ्कलितधनान्तरात् पातनार्थम् । किन्तु शेषजिज्ञासार्थत्वादस्य सूत्रस्य व्यवकलितशब्दस्य
सङ्कलितशब्दविशेषलाभः । तेन व्यवकलितं पतितं यत्सङ्कलितं, तस्य पदं व्यवकलितपदम् । तत्सैकं
सङ्कलितपदे निधाय निक्षिप्य, सङ्कलितव्यवकलितपदयोर्विवरेण, मध्येन विशेषेण (यद्) यतः
पतति³ तच्छुद्धिविशेषेण, सङ्गुण्य चार्द्धीकुर्यात् । एवं सति एकस्मात् सङ्कलिताद् अन्यसङ्कलिते
व्यवकलिते पतिते पातिते वा शेषं भवति, अर्थात् सङ्कलितधनस्य (व्यवकलितधनस्य चान्तर
भवति) । यथा प्रश्नः --
एकादिदशान्तानां दशगुणितानां शतस्य सङ्कलितात् ।
एकाद्येकचयेन व्यवकलिते किं पृथक्शेषम् ॥ २ ॥
एकादिदशान्तानां दशगुणितानां, दशविंशत्यादीनां शतान्तानां, सङ्कलिते शतसम्बन्धिनः
सङ्कलितात् व्यवकलिते, पतिते, पृथक् पृथक् शेषं किं भवेदिति । व्यवकलितपदं⁴ १०, सैकं ११,
(सङ्कलितपदे १००) सन्निधाय १११, सङ्गुणयेत्पदयोर्विवरेण नवत्या ९९९०, दलितम्
४९९५ । व्यवकलितपदं⁵ २०, सैकं २१, सन्निधाय १२१, पदयोरन्तरेणाशीत्या गुणितं ९६८०,
दलितम् ४८४० । व्यवकलितपदं⁴ ३०, सैकं (३१,¹ सन्निधाय) १३१, पदयोर्विवरेण सप्तत्या
गुणितं ९१७०, दलितम् ४५८५ । व्यवकलितपदं⁵ ४०, सैकं ४१, सन्निधाय १४१, पदयोर्विवरेण
षष्ट्या गुणितं ८४६०, दलितम् ४२३० । व्यवकलितपदं⁴ ५०, सैकं ५१, सन्निधाय १५१,
पदमध्येन पञ्चाशता गुणितं ७५५०, दलितम् ३७७५ । व्यवकलितपदं⁶ ६०, सैकं ६१,
सन्निधाय १६१, पदमध्येन चत्वारिंशता गुणितं ६४४०, दलितम् ३२२० । व्यवकलितपदं⁷
७०, सैकं ७१, सन्निधाय १७१, पदयोर्विवरेण त्रिंशता गुणितं ५१३०, दलितम् २५६५ ।
¹ सं । ² व्यपकलितपदं सङ्कलितपदं । ³ पतन्ति । ⁴ व्यप । ⁵ व्यपक । ⁶ व्यपकलितं ।
⁷ व्य ।