पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 65, कुल 337 में से
संदर्भ में पढ़ें१० सङ्कलित-परिकर्म
भवति। पदेन युतं (पदं) पदयुत (पद) मिति यदि विवक्षितं स्यात्तदा द्विगुणपदेति ब्रूयात् ।
तद्वचने तु पदमुत्क्रम्य पदवर्गः १पदशब्दसम्बन्धमभिनीयेते । अथोच्यते, पदयुतपदमिति
न द्विगुणं पदमित्यर्थो विज्ञातुं शक्यः -- पदस्य सम्बन्धि यत्पदं, वर्गमूलं परमासन्नं करणीरूपं
वा, तेन युतं तद्वर्गात्मकं, सङ्कलितापेक्षया पदव्यपदेश्यं पदमित्यस्यार्थस्य न्याय्यत्वात् । यथा
पुत्रेण युतः पुत्र इत्यत्र पुत्रसम्बन्धात्तृतीयान्तः पुत्रशब्दः पौत्रवृत्तिर्जायते, न तु यस्य स पुत्रस्तत्पुत्रेणैव
सहितः। पुत्री भ्रातराविति प्रतीतिस्तर्हि परप्रणीतसङ्कलितानुवादमात्रमेतत्सूत्रमिति न स्फुटाभिम-
तसमर्पकं वाक्यमचरयन् न वा व्याख्यातृभिस्तत्र व्यवस्थापनाय युक्तिविमर्दः प्रतन्यते इति ।
अथ पूर्वोक्तानां दशादीनां शतान्तानां सङ्कलितार्थं प्रकारान्तरेण कर्म । पदं १०,
तद्वर्गः १००, पदयुतः, ११०, दलम् ५५ । पदं २०, (तद्) वर्गः ४००, पदयुतः२ ४२०, दलम्
२१०। पदं ३०, तद्वर्गः ९००, पदयुतः ९३०, दलम् ४६५ । पदं ४०, तद्वर्गः १६००,
पदयुतः १६४०, दलम् ८२० । पदं ५०, तद्वर्गः २५००, (पदयुतः २५५०), दलम् १२७५ ।
पदं ६०, तद्वर्गः ३६००, पदयुतः ३६६०, दलम् १८३० । पदं ७०, तद्वर्गः ४९००, पदयुतः
४९७०, दलम् २४८५ । पदं ८०, तद्वर्गः ६४००, पदयुतः ६४८०, दलम् ३२४० । पदं ९०,
तद्वर्गः ८१००, पदयुतः ८१९०, दलम् ४०६५ । पदं १००, तद्वर्गः १००००, पदयुतः
१०१००, दलम् ५०५० ।
तदष्टसङ्गुणितम् ।
रूपयुतं तन्मूलं निरेकमर्द्धीकृतं गच्छः ॥ १५ ॥
'द्विगुणीकृतसङ्कलितादि'त्यादिना पदानयने सिद्धेऽपि सङ्कलितानयनार्थं प्रकारान्तर-
प्रदर्शनं तत्फलप्राधान्यख्यापनार्थः३ पुनरारम्भः , अवशिष्टसाम्यानुसरणखेदपरिहारार्थं
वा । ४तदेकाद्येकचयेन प्रकारद्वयोक्तसङ्कलितम् अष्टभिर्गुणयित्वा रूपेणैकेन संयोज्य वर्ग-
मूलमानीय५ रूपं हीनं कृत्वा दलयेत्, एवमपि पदं६ लभ्यते । यथा सङ्कलितम् ५५,
अष्टगुणं ४४०, रूपयुतं ४४१, मूलं २१, निरेकम् २०, अर्द्धीकृतम् १० । सङ्कलितम्७ २१०,
अष्टघ्नं १६८०, सैकं १६८१, मूलं ४१, व्येकम् ४०, अर्द्धीकृतम् २० । सङ्कलितम्७ ४६५,
अष्टघ्नं ३७२०, सैकं ३७२१, मूलं ६१, व्येकम् ६०, अर्द्धीकृतम् ३० । सङ्कलितम्७ ८२०,
अष्टघ्नं ६५६०, सैकं ६५६१, मूलं ८१, व्येकं ८०, दलितम् ४० । सङ्कलितम्७
१२७५, अष्टघ्नं १०२००, सैकं १०२०१, मूलं १०१, व्येकं १००, दलितम् ५० ।
सङ्कलितम्७ १८३०, अष्टघ्नं १४६४०, सैकं १४६४१, मूलं १२१, व्येकं १२०, दलितम् ६० ।
सङ्कलितम्७ २४८५, अष्टघ्नं १९८८०, सैकं १९८८१, मूलं १४१, व्येकं १४०,
१ पदशब्दः° । २ पदयुतं । ३ प्रदर्शनवत्फलप्राधान्यव्याख्यानार्थः । ४ तद्ये का० । ५ वर्गमूलेन
विभज्य । ६ दलं । ७ सं ।