पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 62, कुल 337 में से
संदर्भ में पढ़ेंसङ्कलित-परिकर्म ७
उदाहरणम्—
एकादिदशान्तानां सङ्कलितं किं पृथग् दशगुणानाम् ।
एकाद्येकचयेन प्रचक्ष्व तस्मात् पदं चाशु ॥ १ ॥
एको दशगुणो दश । 'आदि'ग्रहणाद् द्वयादयो१ गृह्यन्ते । ते दशगुणा विंशतिः,
त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः, नवतिः, शतमिति सम्भवति ।
एतेषां पदानामेकाद्येकोत्तरेण सङ्कलितं किं स्यादिति प्रचक्ष्व, कथय । तस्मात् पदं चाशु इति,
सङ्कलितात् पदानयनप्रश्नार्थाद् वाक्यान्तराद् आशु पदम् । इहोभयप्रश्नशेषत्वात्तस्य तेन
शीघ्रं कथयेत्यर्थः । एतेन करणसूत्रारम्भसाफल्यमुत्पादयति । करणसूत्रोक्तक्रमेण
लक्षादेरपि२ तावानेव प्रयत्नलेशो यावान् द्वयोः सङ्कलितानयने । प्रशास्त्रितक्रमेण च द्वयोः
सङ्कलितम्---आदौ रूपं न्यस्य तदनन्तरं रूपद्वयं तत्रापि रूपस्य रूपयोश्च युतिरिति त्रीणि
कर्माणि, तान्येव सूत्रक्रमे —सैकपदमित्येकम्, आहतपदमिति द्वितीयम् दलमिति
तृतीयम् । अथ इह पदस्थान(त्रय)मिति त्रीणि कर्माणि युतिश्च चतुर्थम् । यदि वा रूपेण
रूपद्वययुतिस्तदा रूपत्रययुतिरिति३, अत्र पञ्च कर्माणि भवन्तीत्यस्मादेव प्रभृति करणक्रमो
लघूभवति । अपि च भिन्ने भागात्मके वा पदे सङ्कलितस्थापनसूत्रितस्य नैव शक्यम् । तथाहि-
[L