पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 61, कुल 337 में से
संदर्भ में पढ़ेंएष (कुडवः) चतुश्चाथुर्थिकः । तच्चतुष्टयेन प्रस्थः । तच्चतुष्टयेनाढकः । तच्चतुष्ट-
येन द्रोणः । तैः षोडशभिः खारी । इत्यनया कल्पनया द्वात्रिंशच्छतपलप्रमाणा¹ खारी भवति ।
ततः षोडशभागः पलशतद्वयं द्रोणः । ततश्चतुर्भागः पञ्चाशत् पलानि आढकः । ततश्चतुर्भागः
पलद्वादशकं सार्द्धं प्रस्थः । ततश्चतुर्भागः पलत्रयमष्टांशश्च कुडवः । तच्चतुर्भागः पञ्चविंशते-
र्द्वात्रिंशद्भागः² २५/३२ चातुर्थिकः । तच्चतुर्भागः २५/१२८ एते वसुयमरूपच्छेदास्तत्वपलांशाः³
षोडशिका । अथ यथाक्रममङ्कन्यासः । खारीपलानि ३२०० । द्रोणपलानि २०० । आढकपलानि
५० । प्रस्थपलानि १२ ½ । कुडवपलानि ३ ⅛ । चातुर्थिकपलानि २५/३२ । षोडशिकापलानि २५/१२८ ।
हस्तोऽङ्गुलविंशत्या चतुरन्वितया चतुष्करो दण्डः ।
तद्द्विसहस्रं क्रोशो योजनमेकं चतुष्क्रोशम् ॥ १२ ॥
चतुर्विंशत्यङ्गुलैर्हस्तः । तैश्चतुर्भिर्दण्डः । तत्सहस्रद्वयेन क्रोशः । तैश्चतुर्भिर्योजनम् ।
भवति घटीनां षष्ट्याऽहोरात्रस्तैस्त्रिसङ्गुणैर्दशभिः ।
मासो द्वादशभिस्तैर्वर्षं गणितेऽत्र परिभाषा ॥ १३ ॥
षष्टिर्घटिका अहोरात्रः⁴, त्रिंशदहोरात्रो मासः, द्वादशमासो वर्षमिति । एकं दशो-
त्यतः प्रभृति गणितेऽत्र परिभाषा, सङ्ख्याङ्कस्थापनसंज्ञा द्रव्यदेशकालपरिच्छेदस्त्रिविधः⁵ ।
द्रव्यमानं गुरुत्वमानं गुञ्जामाषकर्षपलानि षोडशिकाचातुर्थिके कुडवप्रस्थाढकद्रोणखार्यादि
(काकिणीपणपुराणादि च) । (देशमानं) आयामविष्कम्भमानम् अङ्गुलदण्डक्रोशयोजनादि⁶ ।
देशस्य गुरुमानं काकिण्यादिमानं च नास्ति । कालस्य वृत्तिगणनेनैव । सूक्ष्मेण चषकादिमानेन,
स्थूलेन युगादिमानेन च लोकव्यवहारो नास्ति । स इह नोक्तः । अनेककर्मत्वाद्वा व्यवस्थानम-
त्यादराय न स्थितम्⁷ ।
अनन्तरं यथोद्देशक्रमं सङ्कलितादिविधयो निर्दिश्यन्ते—
सैकपदाहतपददलमेकादिचयेन भवति सङ्कलितम् ।
सह एकेन वर्तते (इति) सैकम्, एकसहितम् एकयुक्तम् एकेनाधिकीकृतम्, यत्पदं, गच्छः
अवधिः, तेनाहतं गुणितं, यत् पदं तस्य दलम्, अर्द्धं, तदेकाद्येकचयेन सङ्कलितं भवति । एकाद्यनेक-
चये⁸ अनेकाद्येकचये (च) इदं करणं न भवति । तत्र इह च सामान्येन श्रेष्ठ्यां 'व्येकपदार्धघ्नचयः
सादिः पदसङ्गुणो भवेद् गणितम्' इति वक्ष्यति । एकाद्येकचये तु कर्मणि अनेनोक्तप्रकारेण
लाघवमस्ति इति पृथक् सूत्रारम्भः कर्मलाघवार्थः । एवं च भूयांसि सूत्राणि स्थितानि ।
तद्यथा—व्यवकलिते 'सैकं व्यवकलितपदमित्यादि । शक्यमिति सङ्कलितपदात् सङ्कलित-
धनं व्यवकलितपदाद् व्यवकलितधनमानीयन्तरं कृत्वा शेषं ज्ञातुम्, प्रयत्नगौरवं तु स्यात् ।
¹ ॰प्रमाण । ² ॰शतित्रीं । ³ ॰वस्त्रयमं । ⁴ ग्रहोरात्रः । ⁵ ॰त्रिविधं । ⁶ ॰योजनादि
भेदमानं काकिणीपणपुराणादि । ⁷ ॰मत्यादरां न स्थितः । ⁸ एकाद्येकचये ।