पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 60, कुल 337 में से
संदर्भ में पढ़ेंलाभः। शून्यतत्वम्, शून्यकल्पनाभिरकलुषं तत्वम्, परमार्थतस्तस्यापि¹ लोकस्थितत्वात्
गणितपर्यालोचनालभ्यत्वाच्च। इति शास्त्राभिधेयोद्देशः।
एकं² दश शतमस्मात्सहस्रमयुतं ततः परं लक्षम्³।
प्रयुतं कोटिमथार्बुदमब्जं⁴ खर्वं निखर्वं च॥७॥
तस्मान् महासरोजं शङ्कुं⁵ सरितां पतिं ततस्त्वन्त्यम्।
मध्यं परार्द्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः॥८॥
एकं १, दश १०, शतं १००, सहस्रं १०००, अयुतं १००००, लक्षं
१०००००, प्रयुतं १००००००, कोटिः १०००००००, अर्बुदं⁶ १००००००००, अब्जं
१०००००००००, खर्वं १००००००००००, निखर्वं १०००००००००००, महापद्मं
१००००००००००००, शङ्कुः १०००००००००००००, जलधिः १००००००००००००००,
अन्त्यं १०००००००००००००००, मध्यं १००००००००००००००००, परार्धम्
१०००००००००००००००००।⁷
षोडशपणः पुराणः पणो भवेत् काकिणीचतुष्केन⁸।
पञ्चाहतैश्चतुर्भिर्वराटकैः काकिणी चैका⁹॥९॥
विंशतिभिर्वराटकैः काकिणी१०। तच्चतुष्टयेन पणः। तैः षोडशभिः पुराणः। ततश्च
पुराणा यदा पणसहितास्तदा पणानामधः षोडश छेदो देयः। पुराणाः¹¹ काकिणीयुक्ता-
श्चेत्तदा काकिण्यश्चतुष्षष्टिरूच्छेदाः कार्याः। एतावतीभिरेताभिः स इति। पणैस्तु काकिण्यो
युज्यमानाश्चतुश्छेदा एव। एवमन्यदप्यूह्यम्।
माषो दशार्द्धगुञ्जः¹² षोडशमाषो¹³ निगद्यते कर्षः।
स सुवर्णस्य सुवर्णस्तैरेव ' पलं चतुर्भिश्च॥१०॥
पञ्चभिर्गुञ्जाभिर्माषः। तैः षोडशभिः कर्षः। स एव सुवर्णसम्बन्धी¹⁴ सुवर्णसंज्ञः।
तैः कर्षैश्चतुर्भिः पलम्।
खार्यैका¹५ षोडशभिर्द्रोणैश्चतुराढको भवेद् द्रोणः।
प्रस्थैश्चतुर्भिराढकमेकः¹⁶ प्रस्थश्चतुष्कुडवः॥११॥
¹ परमार्थः। ² एक। ³ लक्ष्यम्। ⁴ 'मथार्बुघमब्जं। ⁵ शंखं। ⁶ अर्बुधं।
⁷ द्वे परार्द्धे २००००००००००००००००। ⁸ काकिनीचतुष्केन। ⁹ काकिनीचैक। ¹⁰ 'वरिटकैः
काकिनी। ¹¹ पुराणः। ¹² 'गुंजः। ¹³ 'मासो। ¹⁴ सुवर्णन्धी। ¹⁵ खार्येक। ¹⁶ 'राढकम् कः।