सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 59, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 59

एकभेदास्त्रयोदश, द्विभेदा अष्टसप्ततिरित्यादि यावत् त्रयोदशभेद एक इति । प्रमाण-
फलेच्छाख्यैस्त्रिभी राशिभिर्भवतीति त्रैराशिकम् । तच्च द्विविधम् । मानान्तराऽव्यावृत्तिहीनम्¹,
इतरच्च मानयोर्न्यूनाधिकयोरेकतरेण मानेन ज्ञातसङ्ख्यस्य वस्तुनः इतरेण ज्ञातुमिच्छा माना-
न्तरम् । त्रिभिरेव राशिभिः प्रमाणफलेच्छाख्यैः सम्भवात् त्रैराशिकमेव तत् आद्यन्तयोः
समानजातीयत्वे², व्यस्तत्वे व्यस्तत्रैराशिकम् । पञ्चभिः सप्तभिर्नवभिरिति राशिभिर्भवं
पञ्चराशिक-सप्तराशिक-नवराशिकमिति³ । ज्ञातमूल्यादिना भाण्डेन ज्ञातमूल्यादिन एव
भाण्डान्तरस्य परिवर्त्तग्रहणेच्छायाभियता कियदिति च भाण्डप्रतिभाण्डकम् । जीवस्य विक्रयो
जीवविक्रयः⁴, यत्र वयसो वृद्धौ मूल्यमपचीयते⁵, जीवस्य आयुषो हानौ⁶ । वयसस्तु अक्षये
स्वभूतस्य आयुषो भावसम्भावनान्मूल्यं बहु भवति द्रव्यस्येति⁷। गुणभागहारस्थाननियमाद्
गणितकर्मक्रमज्ञानार्थत्वात्⁸ परिकर्माणि । इयता कालेन इयतः प्रयुक्तधनस्य इयांल्लाभ इतीत्थं
कालविशेषेण धनविशेषस्य लाभविशेषं नियम्याज्ञातधनं प्रयुक्तं तत्तत्काले धनं लाभसहितमा-
नीय ऋणिना शोधितम् । यथैकेन मासेन शतस्य लाभः⁹ पञ्चेति व्यवस्थया अज्ञातधनं
प्रयुक्तं तद् द्वादशभिर्मासैर्नानीय लाभसहितं प्रतिदत्तं दृष्टं यथा षण्णवतिः, तत्र न ज्ञायते कियत्
प्रयुक्तमासीद् यस्य तया व्यवस्थया समुचितलाभसहितं¹⁰ वर्षेण षण्णवतिः मिश्रं भवतीति
मूललाभविभागानयनम् । तथाऽन्येषामपि नानाविधानां मिश्राणामभिमतविभागपरिज्ञानं यत्र
क्रियते तन्मिश्रकम् । आद्युत्तरपदात्मिका अधोऽल्पविस्तारा उपरि महाविस्तारा शरावाकृतिः
क्षेत्रविशेषः श्रेढी¹¹ । क्षेत्रं दशविधं, यत्र चतुरश्रं पञ्चप्रकारं, समचतुरश्रं, त्रिसमचतुरश्रं,
द्विसमचतुरश्रं, विषमचतुरश्रं, आयतचतुरश्रमिति; त्र्यश्रं त्रिप्रकारकं, समत्र्यश्रं, द्विसमत्र्यश्रं,
विषमत्र्यश्रमिति; वृत्तमेकविधं, चापं च, एवमेतद्दश भेदाः । अन्यानि ¹²गजदन्त-नेमि-बालेन्दु-
यव-वज्र-पञ्च-षट्-सप्ताष्टाश्रि¹³प्रभृतीनि क्षेत्राणि यथासम्भवं समुद्दिष्टदशक्षेत्रकल्पनया
साधितफलानि । तदिदं क्षेत्रमायामविस्तारवत्त्वात् द्विराशिविषयः¹⁴ । खातः¹⁵ क्षेत्रवदेव किन्तु
आयामविस्तारतलवत्त्वात् त्रिराशिप्रत्युत्पन्नस्य घनस्य च विषयः । चितिः आयामविस्तार-
विष्कम्भात्मकत्वात् खातसदृशा¹⁶ त्रिराशिविषया¹⁷ एव । क्राकचाः काष्ठपट्टिकास्तेषां¹⁸
व्यवहारः ऊर्ध्वच्छेदे¹⁹ विस्तारायामवान् । तिर्य(क्)छेदे विस्तारविष्कम्भवान् । बहुतिर्यक्-
छेदेऽपि तथा । तत्रापि दारुविशेषात् प्रयत्नविशेषः । राशिः मूलपरिधिसमुच्छ्राययुक्तः,
तदनुसारज्ञेयद्रव्यपरिमाणः²⁰ । तत्रापि द्रव्यविशेषात् प्रमाणविशेषनियमनम् । छाया
प्रकाशितप्रदेशस्य²¹ शङ्क्वादिनाऽवरोधे तद्विहीनप्रदेशकस्था²², तदनुसारेण शङ्कुदीपाद्यन्तर-


¹ मन्तरा० । ² समानजातीयत्व । ³ पञ्चराशिसप्तराशिनवराशि । ⁴ जीवस्य विक्रियो
जीवविक्रियः । ⁵ मूल० । ⁶ हानिः । ⁷ गुणित० । ⁸ छोकितं । ⁹ लाभ । ¹⁰ लाभसहित । ¹¹ श्रेष्टी ।
¹² जगदन्त० । ¹³ ॰वज्रषट्प्रष्टाश्रि । ¹⁴ ॰विस्तारतलवत्वात् त्रिविषमः । ¹⁵ खान्त ।
¹⁶ खातसादृशा । ¹⁷ सदृशत्रिराशि विषय । ¹⁸ कठपत्रिकारतेषां । ¹⁹ ऊर्द्धच्छेदे । ²⁰ परिक्षाम ।
²¹ परिधिप्रदेशस्य । ²² ॰प्रदेशकास्थं ।