सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 57, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 57

२ शास्त्राभिधेयोद्देशः
तिरोधानात् स पञ्चकृत्यो भगवानि'त्यादिवाक्येषु यथा स्थितिशब्दः स्थापने वर्त्तते तथा
सृष्ट्युपक्रमात् स्थितिलयो स्थापनविलापनयोर्वर्त्तते तदाऽस्तु कर्मण्येव । 'इह कः प्रधानभूतः
पचेरर्थो योऽसौ तण्डुलानां विक्लित्तिर्नाम१' इति न्यायेन वा यदि सृजेः प्रधानभूतो यो
जन्माथंस्तदपेक्षया कर्तृत्वं तदा तत्रैव षष्ठी, सम्बन्धसामान्यषष्ठया त्वनायासः ।
सङ्कलितव्यवकलिते२ प्रत्युत्पन्नोऽथ भागहारश्च ।
वर्गस्तस्य च मूलं घनघनमूले तथैतानि ॥ २ ॥
भिन्नानि षट्प्रकारः कलासवर्णो यथाक्रमशः ।
भागस्तथा प्रभागोऽथ भागभागश्च तत्परतः ॥ ३ ॥
भागानुबन्धभागापवाहसंज्ञौ च भागमाता च।
त्रैराशिकं ततस्तद्व्यस्तमथो पञ्चसप्तनवराशिः३ ॥ ४ ॥
भाण्डप्रतिभाण्डजीवविक्रयौ४ संयुता नवभिरेव ।
परिकर्मविंशतिरिह व्यवहाराः स्युर्नवै क्रमशः ॥ ५ ॥
मिश्रकमादौ तदनु श्रेढी५ क्षेत्रं ततश्च खातचिती ।
क्राकचराशी छाया६ ततः परं शून्यतत्त्वमिति ॥ ६ ॥
धनं योगः चय एकीकरणमिति सङ्कलितम् । ऋणं वियोगोऽपचयोऽन्तरमूती-
करणमिति७ व्यवकलितम् । घातो८ वधस्ताडनं गुणनं कुट्टनमभ्यास९ इति प्रत्युत्पन्नः ।
छेदो भागो हरणमपवर्त्तनमिति भागहारः । कृतिः सदृशद्विराशिघातो द्विगतं स्वघात
इति वर्गः । पदं गच्छ इति मूलम् । सदृशत्रिराशिघातस्त्रिगतमिति घनः । कलाः रूपभागद्वि-
भागादयस्तासां१० सवर्णनं कलासवर्णः । द्विभागादयो भागा एव सवर्णयित्वा११ संयोज्यन्ते
वियोज्यन्ते१२ वा सा भागजातिः सङ्कलितव्यवकलितात्मिका । भागस्यापि यो भागः स
प्रभागः, प्रशब्दस्य विप्रकर्षवाचकत्वात् प्रपौत्रप्रशिष्यादिवत् । इह च भागस्य द्विभागादेर्यो
द्विभागादिः स रूपस्य कोऽंश१३ इति गणितानीतस्तस्यासौ तावत्प्रभागो१४ भवति । अनन्तरं
(च) भागभागः भागप्रमाणेन तस्यानयनात् । आनीतस्तु सोऽपि तस्य तद्भागस्य प्रति-
पत्तिरूपम्१५, ( यथा त्रयाणां ) पञ्चभागभागानां१६ कियदति ज्ञातुमिष्टे पञ्चदश
लभ्यन्ते, तदेतद्भागानुसारेण रूपाणां भागपरिज्ञानम् । रूपाणां भागैः सह सवर्णनं
१ विक्लित्तिर्नाम । २ ॰व्यपकलिते । प्रायः सर्वत्रैव व्यवकलितस्थाने व्यपकलित इति
विद्यते । ३ पञ्चनवराशि । ४ ॰विक्रियो । ५ श्रेष्ठी । ६ क्राकचराशिश्चाया । ७ वियोगोपचयोत्तरं ।
८ घातं । ९ कुटनभ्यास । १० रूपभागा॰ । ११ सर्वण्य । १२ वियुज्यन्ते । १३ कोष । १४ तावत्पभागो ।
१५ प्रतिपदि रूपं । १६ तत्पंचानां ।