सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 56, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 56

श्रीः
पाटीगणितम्
श्रीधराचार्यविरचितं टीकासनाथीकृतम्
━━━━━━━━━━━━━━━━━━━━━━━━━
सिन्दूरकुङ्कुमहुताशनविद्रुमार्क-
रक्ताब्जदाडिमनिभाय चतुर्भुजाय ।
हेरम्बभैरवगणेश्वरनायकाय¹
सर्वार्थसिद्धिफलदाय² नमोऽस्तु तस्मै ॥
सृष्टिस्थितिलयहेतुं जगतामजमीश्वरं³ प्रणम्याहम्⁴ ।
लोकव्यवहारार्थं गणितं संक्षेपतो वक्ष्ये ॥ १ ॥
जगतां भुवनानां भूर्भुवःस्वर्लक्षणानां त्रयाणां, जनमहस्तपःसत्याख्यैः⁵ सह वा
सप्तानां, कालाग्निरुद्रभुवनादारभ्य शिवावधि भुवनाध्वपरिगणितानां, ये सृष्टिस्थितिलया
उत्पत्तिव्यवस्थानविध्वंसा निर्माणपालनसंहारा वा निर्माणावस्थानविध्वंसा एव⁶ वा, तेषां हेतुं
यथायोगं कर्त्तरि प्रवर्त्तयितारं निमित्तं वा, तथा अजं जन्मरहितम् अर्थात् स्थितिविनाborder/विनाशरहितं
महासत्ताख्यनिजस्थितिमन्तं, यावत्सम्भवविपदार्थसार्थगर्भजगदवस्थाश्रयस्य⁷ तदधीनत्वात् परि-
शेषाभावात् स्वात्मन्यसम्भवद्विधातारम्, एवमपि अनादिसिद्धावावास्तवस्पर्द्धार्या⁸ तद्विपरीत-
मीश्वरं, परमकारुणिकत्वेन प्राप्तं कालमपि⁹ निवारयितुं प्रभुं प्रणम्य नमस्कृत्याहं श्रीधराचार्यः
लोकानां व्यवहारार्थं गणितं पाटीरूपं संक्षेपतो ग्रन्थलाघवमाश्रित्य वक्ष्ये कथयिष्ये ।
संक्षेपत इत्यतोऽनेकगणितान्तरसम्भवस्य शास्त्रस्य वैयर्थ्यं न चोद्यम् । जगतामित्यत्र¹⁰
सम्बन्धसामान्ये षष्ठी मम पितापुत्रावित्यादिवत्, न तु सृष्टिक्रियापेक्षया कर्मणि स्थितिलयो
प्रत्यकर्मकत्वात् तदपेक्षया कर्त्तरि इतरत्रातथात्वात् । यदि तु 'सृष्टिस्थितिसंहारानुग्रह-
━━━━━━━━━━━━━━━━━━━━━━━━━
¹ हेरम्भं । ² फलादाय । ³ जगतामत्रमीश्वरं । ⁴ प्रणाम्यामहम् । ⁵ जनमहत् । ⁶ एवं ।
⁷ जगदवस्थात्रस्य । ⁸ अनादिसिद्धा ‥ वासस्पर्द्धायां । ⁹ कालं तेषामपि । ¹⁰ जगतामिति ।