पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 223, कुल 337 में से
संदर्भ में पढ़ें१६८ क्षेत्रव्यवहारः
यस्य समपार्श्वभुजस्य त्रिसमभुजक्षेत्रस्यैको(न)चत्वारिंशद्धस्ता भूमिः शेषं तु भुजत्रयं
प्रत्येकं पञ्चविंशतिर्हस्ता लम्बश्चतुर्विंशतिहस्तस्तस्य किं क्षेत्रफलमिति ।
न्यासः-
[चित्रम्: वदनम् २५, वा २५, २५ वा, लम्बः २४, भूः ३९]
करणम्---भूः ३९, वदनं २५, अनयोः समासः ६४, अतोऽर्धं ३२, मध्यमलम्बेन २४
सङ्गुणितं ७६८ हस्ताः ।
अथ स्थूलं फलम्-बाहुप्रतिबाहुयोगौ ६४ । ५०, अनयोर्दले ३२ । २५, अनयोर्घातः
८००, एतद् द्वात्रिंशद्धस्तैरधिकैः¹ सान्तरमिति दूरभ्रष्टम् । वक्ष्यमाणकरणेन भुजयुतिः ११४,
अतो² दलं ५७, चतुर्धा ५७ । ५७ । ५७ । ५७, भुजहीनं १८ । ३२ । ३२ । ३२, एषां वधः³
५८६८२४, अतः पदं तदेव ७६८ ।
अत्रापि प्रश्नोपलब्ध एव लम्बः, तदनुसरणं तु पार्श्वभुजयोरन्तरं ०, संयुतिः ५०,
अनयोर्वधः ०, मुखेन २५ हीनायाः भुवः⁴ १४ कृतिः-१९६ अधिकैव, तस्मादस्त्यत्र लम्बावधा-
वाप्तिः⁵ । अथ लम्बानयनम् । तत्र लम्बानयनोपकारिण्यावाबाधे समभुजत्वात् क्षेत्रस्य
भूम्यर्धभूमी एव भवतः; योऽसौ लम्बो मुखमध्याद्विलम्बितः, चतुरश्रे हि मुखस्य सम्भवा(त्)
तदेकदेशानां बहुत्वात् प्रभूतेष्टलम्बसम्भवः; यावन्न मुखस्योभयपार्श्वस्थौ⁶ कोणौ मुखपार्श्व-
भुजसन्धिव्यपदेशान्तरौ । इह च भूमिरेकोनचत्वारिंशत्, ततोऽर्धमेकोनविंशतिः सार्धा भवति,
तन्न (न) तया आबाधया लम्बानयनमस्ति त्र्यश्रस्यैवावाधानयनपूर्वकं लम्बानयनकरणात् ।
तथा च तत्करणम्-
त्र्यश्रस्य पार्श्वभुजयोः कृतिविवरं भृहृतमृणं⁷ धनं भूमौ ।
तद्दलभवधे महती बृहद्भुजे लम्बकस्य विनिपातात्⁸ ॥
अवधावर्गेणोनाद् भुजवर्गान्मूलमिष्यते लम्बः ।
इति । तस्मान्मुखतुल्यभूवदनायतचतुरश्रं पृथक्परिकल्प्य परिशिष्टक्षेत्रखण्डाभ्यां सम्पुटी-
¹ एतद्य द्वात्रिंशता० । ² अत । ³ वाधः ५८६८२ । ⁴ मुखेन २५ भुवयुतिः ११४
अतोदल ३६ हीनायाः । ⁵ लंबावावधा० । ⁶ यावत् मुख्यस्यो० । ⁷ अस्यतमृण ।
⁸ लंबकनिपाते ।