पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 168, कुल 337 में से
संदर्भ में पढ़ेंश्रेढीव्यवहारः ११३
यदि रूपद्वयं क्षेत्रफलं तदाऽर्धभुवो द्विवक्त्रस्यार्धलम्बस्य किमिति, भूवदने समस्य न्यासः—
| भू ४ | ५/२ भू |
| ल १ | १/२ ल |
| फ २ | |
‘नीते फलेऽन्यपक्षमि’त्यादिना लभ्यते ५/८, इदं प्रथमार्धे क्षेत्रफलम् ।
अथापरं पञ्चराशिकम्—अर्धभुवोऽर्धचतुर्थवक्त्रस्य१ रूपलम्बस्य फलं यदि द्वौ त(दा)
द्विभुवोऽर्धचतुर्थवक्त्रस्यार्धहस्तलम्बस्य किमिति । भूवदने समस्य न्यासः—
| ४ | ११/२ |
| १ | १/२ |
| २ | |
‘नीते फलेऽन्यपक्ष’मित्यादिना लभ्यते द्वितीयार्धे क्षेत्रफलं । ११/८ ।
तदेवं क्षेत्रस्वरूपवशादर्धयोः फलवैषम्यम्२ । अत एव राशिगते गणितान्तरं वक्ष्यति
‘निर्विकलपदघ्नचय’ इत्यादि ।
न्यासः— आ २, उ ३, ग | १/२ | ।
निर्विकलं पदं (०), अनेन चयः ३ गुणितः ‘सङ्गुगणे (खेन) च खमेवे’ति भवति ०,
आदिना २ सहितः ‘क्षेपसमं खं योगे’ इति भवति २, एषोऽनष्टसंज्ञोऽग्रेऽपेक्षमाणो३ द्वितीयस्थाने
स्थाप्यः, एष एव च मुखेन २ अन्वितः ४, चयेन ३ विहीनः४ १, निर्विकलपदम् (०) अस्यार्धं
शून्यमेव ततः सङ्गुणेन ‘खेन च खमेवे’ति शून्यमेव, विकलं । १/२ । एतेन५ गुणित उपरि
द्वितीयस्थानस्थापितोऽनष्टसंज्ञको राशिः रूपद्वयं २ जातं रूपमेकं १, एतद्६ गणितं समग्र-
प्रथमपदस्य । रूपद्वयस्यार्धं रूपमिति ।
अथापरः प्रश्नः—
पञ्चोत्तरद्विकादेः पञ्चमभागे पदे कथय ॥ १०३ ॥
यस्याः प्रथमं पदं रूपद्वयप्रमाणं उत्तराणि पदानि यथोत्तरं पञ्चप्रचयानि पञ्चमो
भागः पदं सा श्रेढी समग्रपदसमासेन किम्फला७ भवतीति कथय ।
न्यासः—
| आ | उ | ग |
| २ | ५ | १/५ |
१ वक्त्रस्य । २ ०वशादर्धयो फलं वैष० । ३ उपेक्ष्यमाणो । ४ विहीन । ५ येतेन । ६ यत० ।
७ किंफलं ।