सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 142, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 142

मिश्रकव्यवहारः ८७
न्यासः— ८ । २ । १००
आदिस्थिते दिनगती अत्राष्टकद्विके¹, तयोर्योगः १०, अस्यार्धं ५, अनेन हृतान्मार्गात्
१००/५ प्राप्तं २०, एष समागमे संगमे कालः । तद्यथा, द्वियोजनश्चत्वारिंशद्योजनानि एतेन
कालेन प्रयाति, अष्टयोजनस्तु षष्ट्युत्तरं शतं योजनानां, शतयोजनप्रमाणं मार्गमतिवाह्य योज-
नानां षष्टिं प्रत्यावर्तते । एवं च लब्धे काले मार्गप्रदेशोऽप्यानीयते, यथा—द्वे योजने यद्येकेन
दिनेन तद्योजनशतं कियतेति न्यासः २ । १ । १००, मध्यं १ अन्त्येन १०० गुणितं १००
आदिना २ विभजेत् ५० । अथ पञ्चाशता दिनैर्यदि योजनशतं तद्विंशत्या किमिति न्यासः
५० । १०० । २०, मध्यम् १०० अन्त्येन २० गुणयेत्² २०००, आदिना ५० विभजेत्
४० इति ।
संगमकाले ज्ञाते मार्गप्रमाणमानीयते । यथा—
दिनगतियोगार्धगुणात् संगमकालात् पथः प्रमाणं स्यात् ॥ ६६ ॥
दिनगतियोगार्धं ५ एतेनास्मात्संगमकालात् २० गुणितान्मार्गो योजनानि १०० ।
(अथ संगमकालमार्गप्रमाणयोर्ज्ञातयोरेकस्य गतिज्ञानेऽन्यस्य गतिज्ञानार्थमार्यापूर्वा-
र्धमाह—)
संगमकालविभक्तान्मार्गाद् द्विगुणाद्गतेर्विशेषोऽन्या³ ।
मार्गात् १०० अस्मात् कालहृतात् ५, द्विगुणात् १०, ज्ञातशीघ्रगत्या ८ विहीनात् २,
अज्ञातमन्दगतिरेषा । अथानयैव ज्ञातमन्द(गत्या)२ विहीनात् ८, अज्ञातशीघ्रगतिरेषा ।
करणसूत्रमार्यापरार्धम्—
पतितस्य भाटकार्धं दद्याच्छेषस्य परिपूर्णम् ॥ ६७ ॥
सहसा पतितस्यातिवाहितमार्गानुसारेण स्वप्रमाणानुसारेण चानुपातिको⁴ नित्यनियमित-
भाटकभागः पञ्चराशिकेनैव सिध्यति, भाटकार्धप्रदानमनयैव क्रियया⁵ तत्र न युक्तमिति सूत्रा-
रम्भसामर्थ्यात्क्रमपतितस्य भाटकज्ञानार्थमेतत्, तदयमर्थः क्रमपतितस्य 'युगपद्गलितस्यावयविन-
स्तस्य तैलादेरानुपातिकभाटकांशलोपे प्राप्तेऽर्धं दद्यात् । अक्रमनिपाते हि तद्भाटकांशो लुप्येत्,
क्रमनिपाते त्वारम्भात्प्रभृति परिसमाप्तिपर्यन्तं किञ्चित्किञ्चिदंशहानिक्रमेण शेषं शेषं व्यूढमेव
भारिकेणेति नास्ति लोपः । अत्र त्वयमभिप्रायः क्रमवर्धमानस्य क्रमह्रासिनो वा सर्वधनमाद्यन्तधन-
युतिदलं पदहृतं भवति । तद्यथा, प्रथमे दिने येन रूपषट्कं दत्तम् अनंतरं द्वितीयेऽह्नि एकैकरूपवृद्धयेति
यावद्दिनानि पञ्च, तेन प्रथमे दिने रूपषट्कं ददता यावत् पञ्चमे रूपदशकं तयोष्षोडशकस्या-
र्धमष्टौ दिनपञ्चगुणानि चत्वारिंशद्दत्तानि⁶ भवन्ति ; तथा प्रथमदिने रूपदशकं दत्तमनन्तरं
द्वितीयेऽह्नि एकैकरूपह्रासेनेति यावद्दिनानि पञ्च, तेन प्रथमे दिने रूपदशकं ददता यावत्पञ्चमे
¹ 'कन्हिके' । ² गुणयेत् २०० । ³ 'गतिविशे' । ⁴ 'नुयाति' । ⁵ 'मिकं' । ⁶ 'हतानि