पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 141, कुल 337 में से
संदर्भ में पढ़ें८६ मिश्रकव्यवहारः
हारयोर्भवति कश्चिद्रूपेण राशिना विशेष इति तस्य लोप¹ एव न्यायः, तदाहुः 'रूपेण गुणभाग-
योरविशेषादार्थस्तल्लोपः² स्यादि'ति । एवं निर्वर्तिते रूपे मध्यमराशेः षोडशकमिच्छा-
राशिच्छेदेन चतुष्केनापवर्तयेत् जायते ४ । २३ । अनयोरंशवधश्छेदवधभक्तः ९२/१ । इदं
मन्दगतेः पूर्वगतं, दिनगतिविशेषेण भाजकवृत्या स्थापितेन गुणयेत् । तत्र गुण्यस्य छेदो
गुणकस्यांशश्च तुल्याविति तल्लोपः । ततो गुणकच्छेदेन गुण्यांशे भक्ते भवति ९२/११ । एवं
मन्दगतिशीघ्रगतिभ्यां सममार्गक्रमणे कालः । अतो लभ्यन्ते दिनान्यष्टौ ८, घटिका एकविंशतिः
२१, चषका एकोनपञ्चाशत् ४९ शेषं १/११ । अथवा दिनचतुष्टयं सार्धं प्रमाणराशि,
योजनाष्टकं मध्यमराशि, पादोनदिनषट्कमिच्छाराशिं कृत्वा मन्दगतेः पूर्वगतमानयेत्, तदेव
लभ्यते ९२/११, दिनगतिविशेषेण भागे तदेव दिनघटिकाचषकादि लभ्यते ।
करणसूत्रमार्यापूर्वार्धमाह—
दिनगतियोगार्धहृतान्मार्गादाप्तं³ समागमे कालः ।
अधिगतप्रमाणं मार्गं द्वयोर्मन्दगतिशीघ्रगत्योः प्रपन्नयोः यद्यपि मन्दगति पश्चात् कृत्वा
पुरः प्रयाति शीघ्रगतिरतस्तयोः समागमो नास्ति, किन्तु स शीघ्रगतिर्यथानियतगन्तव्यमार्ग-
मतिवाह्य यदा प्रत्यावर्तते अस्ति तदा तयोर्गच्छत्प्रत्यागच्छतोः समागमः; स कियता कालेन तयोः
स्यादिति तयोर्मन्दगतिशीघ्रगत्योर्यथास्वं दिनगती साध्येते⁴, तयोर्योगं कृत्वा दलयेत्, तेन भक्ता-
न्मार्गपरिमाणात् समागमे काल आप्यते दिनादिः । उतायमभिप्रायः, मन्दगतिशीघ्रगत्योर्योजना-
दिमिलिते द्विगुणमार्गप्रमाणसमं भवति । तयोश्च प्रतिदिनमगमागम-कालगुणित इति, तद्योगभक्तो
द्विगुणमार्गतुल्यकालप्रदो⁵ भव