पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 140, कुल 337 में से
संदर्भ में पढ़ेंमिश्रकव्यवहारः ८५
प्रस्थितेन सा च कालवती एव¹ भवति, अतिमन्दगतिरपि हि पूर्वप्रस्थितश्चेत् गरुत्मताऽपि द्वितीये
एव काललवे समापद्यते । सैषा मन्दगतिशीघ्रगत्योर्मार्गतुल्यतेत्येवं भवति यतो मन्दशीघ्रयोर्गत्यो-
र्गती प्रश्नात्कालपरिच्छिन्ने ते दिनप्रापयितव्ये कार्ये, ततस्तयोर्दिनगतिसम्मितयोर्गत्यन्तरमाददीत,
तेन मन्दस्य शीघ्रप्रस्थानादपक्रमितमार्गप्रमाणं भजेत्, भागाप्तं शीघ्रेण मन्दस्य लाभे कालो
भवति ।
उदाहरणम्—
यो याति योजनान्यष्टौ दिवसैरर्धपञ्चमैः ।
तस्य षट्सु प्रगतेषु पादोनेषु दिनेषु यः ॥ ८१ ॥
योजनात्रयमेत्यह्ना स तन्मार्गगतिं गतः ।
मिलिष्यति कदा तस्य गणयित्वा निगद्यताम् ॥ ८२ ॥
यः किल दिनार्धसहितेन दिनचतुष्टयेन योजनान्यष्टौ प्रक्रामति तस्य गृहान्निर्गतस्य
दिनपादोनानि षड् दिनानि अतीतानि², अथ तस्य पश्चादपरः प्रत्यहं योजनात्रयगामी प्रस्थितः
स तेन प्रस्थितेन सह कदा निमीलनतां गमिष्यतीति ।
न्यासः³ — ४ | ८ | ६
१ | | १
२ | | ४+
एतत्पूर्वगतेः पूर्वगतार्थं स्थापनम् । १ । ३ शीघ्रगतिज्ञानाय⁴ दिनगतिस्थापनम् ।
सार्धानां चतुर्णां परभागानुबन्धविधिना रूपांशसवर्णने कृते जायते ९/२, तथा पादोनानां षण्णां
परभागापवाहविधिना रूपांशसवर्णने कृते जायते २३/४ । अथ मन्दगतिदिनगत्यानयनार्थं न्यासः
९/२ | ८ | १ । यद्यर्धपञ्चमैर्दिनेर्योजनान्यष्टौ गच्छति तदैकेन दिनेन किमित्यत्र जिज्ञासा । एकदिनगताया
गतेः (ज्ञेयत्वाद् एकस्य दिनस्येच्छात्वाम्), अर्धपञ्चमदिनगता गतिर्ज्ञायते इति तेषां प्रमाणत्वं,
ज्ञाता गतिर्मध्यमो⁵ राशिः । तत्र प्रमाणराशेश्छेदांशविपर्यासे कृते प्रभागवत्कर्मणा⁶ लब्धम् १६/९ ।
एषा मन्दगतेरेकदिनगतिः, शीघ्रगतेस्तु ज्ञायत एव दिनगतिर्योजनत्रयम् ३, एतयोर्दिनगत्योः ‘तुल्येन
भागजातावि’ति सावर्ण्यन्तरकरणाल्लब्धम् ११/९ । अयं गतिविशेषो भाजकतयाऽपेक्षते⁷ इति
छेदांशविपर्यासे कृते स्थापितः ९/११ । यस्यासौ हरस्तन्मन्दगतिसम्बन्धिपादोनादिनषट्कनिर्वर्तित-
गमनं⁸ साधयितुं न्यासः⁹ १ | १६/९ | २३/४ । पादोनादिनषट्कस्य गतिर्न ज्ञायते इति तस्येच्छात्वम्,
एकस्याह्नो ज्ञायते इति तस्य प्रमाणत्वं, ज्ञाता गतिर्मध्यमो राशिः । अत्र प्रमाणराशे रूपस्य
रूपच्छेदनस्य भाजकत्वे छेदांशविपर्यासस्य करणाकरणयोर्विशेषो नास्ति, नापि गुणभाग-
¹ कालवत्येव । ² अतानि । ³ ४ | ८ | ६ ⁴ ज्ञायमाय । ⁵ ‘ध्यमे । ⁶ ‘कर्मेण लब्धं १६/९ ।
१ | | १ ⁷ ‘पेक्षगते । ⁸ ‘न्मन्दनति । ⁹ न्यासः १ | १६/९ | २३/४
२ | | ४