सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 108, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 108

५३
अथ व्यवहाराः
उद्देशक्रमप्राप्ते मिश्रकव्यवहारे करणसूत्रमार्यामाह¹—
निजकालेनाहन्यात् प्रमाणराशिं फलेन परकालम् ।
तौ स्वयुतिहृतौ स्यातां मिश्रगुणौ मूलवृद्धिधने ॥ ४७ ॥
इयता² कालेनेयतः प्रयुक्तधनस्येयान् लाभ इतीत्थं कालविशेषेण³ धनविशेषस्य लाभ-
विशेषं नियम्य तदनुसारेण तत्समं वा धनमूनमधिकं वा किञ्चिदन्यदज्ञायमानं प्रयुक्तम्, अत
एव तस्यानुपातिकलाभपरिज्ञानाभावात्⁴, तस्य तु मूलधनस्य प्रयोगकालात् प्रभृति⁵ गतकालो
ज्ञायते । तत्कालसमुचितलाभसहितमूलधनैक्यं सम्मिश्र्य ऋणिकेनानीय दत्तत्वान्मूललाभ-
प्रविभागः अज्ञायमानो यत्र जिज्ञासितस्तद्विषयमवलम्ब्य करणं⁶ प्रवर्तितम् । एवंविधेषु सारू-
प्यात् कर्मातिदेशः । तथाहि अत्रैव लाभव्यवहारे मूलकालमिश्रं, कालप्रमाणमिश्रं, लाभ-
प्रमाणमिश्रं लाभमिश्रमिति मिश्राणि भवन्ति । तद् वृद्धिधनमिश्रकल्पनयाऽस्य कर्मणो विषयः,
कर्म तु प्रयुक्तधने लाभानुपातार्थं । प्रयुक्तधनराशिः प्रमाणराशिर्र्लोकव्यवहाररूढः⁷ किं क्रियते ।
स्थितैवेयं लोकयात्रा यत्प्रतिमासं प्रतिशतादिलाभं नियम्य मूलान्तरं प्रयुज्यन्ते, नतु पक्षादिकालं
पञ्चाशादादिकं (वा) मूलम् । एतच्च रूपप्रयोगे । धान्यप्रयोगे, प्रतिवर्षं प्रतिखारीतः⁸ । तत्रापि
गुणमयी वृद्धि:⁹, अध्यर्धगुणद्विगुणत्यादिनानाप्रकारव्यवस्थाना लोकव्यवहाराः । एवमपि च प्रचुरेषु
व्यवहारेषु व्यवहर्तॄणां परस्परसंप्रतिपत्तिभिरिच्छातः¹⁰ संविदः प्रवर्तन्ते । सैषा च प्रचुरा रूढिः¹¹
संविच्चोत्सर्गापवादेन प्रवर्तते प्रवृत्तप्रवर्त्यमानेनेति । तं प्रमाणराशिं व्यवस्थापकेन कालेन
गुणयेत्, प्रमाणराशिनियतेन च लाभेन फलेन, परस्य मिश्रस्य, सम्बन्धिनं कालम् । एवं सति तौ
प्रमाणनिजकालवधं प्रमाणलाभमिश्रकालवधं च वधद्वययुत्या पृथक् पृथक् विभक्तौ मिश्रेण
गुणयेत्, ततः प्रमाणनिजकाल(वधात्) तथाकृतात् प्रयुक्तमूलराशिलभ्यते प्रमाणलाभमिश्र-
कालवधाच्च तथाकृतात् प्रयुक्तधनलाभराशि. । अथ(वा) एकलाभेन्यलाभोऽर्थात् सिध्यति ।
उदाहरणम्--
मासेन पञ्चकशते मूलफलैक्यं चतुर्विहीनशतम् ।
दृष्टं वर्षेण सखे किं मूलं तत्र किं (च) फलम् ॥ ५२ ॥
एकेन मासेन रूपशतस्य लाभो रूपपञ्चकमित्यनया व्यवस्थयाऽज्ञातधनं प्रयुक्तं मास-
द्वादशके यथापद्यमानलाभसहितं षण्णवतिर्दृष्टम् । तत्र किं प्रयुक्तधनं किं च तात्कालिकं फलम्¹²।
¹ कारणं° । ² इत्यता । ³ °विशेषण । ⁴ °भावा । ⁵ प्रवृत्ति । ⁶ कारणं । ⁷ °रूप ।
⁸ °खारितः । ⁹ वृद्धिः । ¹⁰ °रिच्छातः संविदः । ¹¹ रूप्य । ¹² तत्कालिकफला ।