पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
DevanagariHindipublished337 पृष्ठ
पृष्ठ 109, कुल 337 में से
संदर्भ में पढ़ेंपृष्ठ 109५४ मिश्रकव्यवहारः
५४ मिश्रकव्यवहारः
न्यासः -- १/१ १००/० ५/१२ ९६/१ । अत्र प्रमाणराशौ १०० निजकालेन १ आहते १००, फलेन
५ परकाले १२ आहते ६० । तस्मिन् १०० । ६० स्वयुत्या १६० भागे अपवर्तने¹ च ५/८ । ३/८ ।
मिश्रेण ९६ तुल्येन गुणयोश्छेदेन (८) अपवर्तितेन १२, प्रत्येकगुणे लब्धं मूलधनं ६०, लाभः
३६ । पञ्चराशिकाप्रत्ययः । एकेन मासेन यदि शतस्य लाभः पञ्च, तद्द्वादशभिः कियतः षट्त्रिं-
शदिति । पक्षयोर्भ्रमव्यत्यासे कर्मान्तरे च कृते लभ्यते मूलं ६० । मिश्रविभागश्च पञ्चराशि-
ना एकेन, त्रैराशिकत्रयेण सिध्यति । तथा च मासेन शतस्य² पञ्च, वर्षेण शतस्य षष्टिः । एवं
सांत वार्षिकलाभसहितं १६०, एतन्मिश्रे यदि शतं मूलं तत्षण्णवतौ³ किमिति लभ्यते ३६ ।
किन्तु मृदुमत्यार्थं⁴ कर्मलाघवार्थं (च) सूत्रारम्भः ।
उदाहरणम्--
सार्धस्य शतस्य फलं सपादमासेन रूपमध्यर्धम् ।
मूलफलैक्यं षट्कृतिरर्धयुताऽर्धाष्टमैर्मासैः ॥ ५३ ॥
सचतुर्भागेन मासेन रूपार्धयुक्तस्य रूपशतस्य सार्धं रूपं लाभः इत्यनया व्यवस्थया
प्रयुक्तं (धनं) सप्तभिर्मासैः पक्षेण चापाद्यमानलाभसहितं रूपार्धयुक्ता षट्त्रिंशद् दृश्यते न च
ज्ञायते किं मूलं किं वा तात्कालिकं च फलम् इति ।
सर्वराशिषु भागानुबन्धेन सवर्णितेषु⁵ न्यासः --
५/४ ३/२
२०१/२ १५/२
७३/२
अत्र निजकालेन ५/४ प्रमाणराशिरयं २०१/२ आहतः १००५/८, फलेन ३/२ परकाल १५/२
आहतः ४५/४ । एतौ १००५/८, ४५/४ स्वयुत्या १०९५/८ 'छेदांशविपर्यासे फलस्य⁶ विहिते विधिः पूर्वः'
इति हृतौ ६७/७३, ६/७३ । एतौ मिश्रेण ७३/२ गुणितौ मूलधनं ३३ १/२ वृद्धिधनम् ३ ।
करणसूत्रमार्या⁷--
कालप्रमाणघातः⁸ परकालहताः फलादयश्चैते ।
स्वयुतिहृता मिश्रगुणा भवन्ति मूलादयः⁹ क्रमशः ॥ ४८ ॥
यत्रैयता कालेनेयतः इयान् लाभो धनप्रयोक्तुरुपचयः तावतैव कालेन तावतो धनस्य
प्रयोक्तृग्रहीत्रोर्मध्यवर्तिनः प्रतिभाव्यादेरियान् लाभः, तावतैव च कालेन तावत एव धन-
स्येयती भृतिर्मूललाभगणनाकृते¹⁰ भृतिः येन चैवं व्यवस्थया ऋणपत्रकं लिखितं तस्य तेनैव¹¹
¹ एवंतैते । ² यस्य । ³ तत्पण्णौ । ⁴ मृङ्गत्यर्थाः । ⁵ सर्वाणितेषु । ⁶ रहस्यं ।
⁷ कारणं । ⁸ कालाप्रमाणाघातः । ⁹ मूलादया । ¹⁰ गणनां । ¹¹ तनैव ।