पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पञ्चमोऽध्यायः । १४७
“आदौ यद् भवति समासोक्तं मध्ये तस्य विस्तरतश्च
विभागतश्चोपनयनिगमनेन* सतामप्येष निश्चयः ”
इति । अत्र तावत् पतिरिति कारणपदार्थस्योपदेशः
समासेन । विस्तरस्तु—वामो देवो ज्येष्ठो रुद्रः कामी शङ्करः
कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्वः
तत्पुरुषो महादेव ओङ्कार ऋषिविंप्रो महानीश ईशान ईश्वरो-
ऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः । विभागोऽपि—अन्यत्
पतित्वम् अन्यदजातत्वम् अन्यद् भवोद्भवत्वमित्याद्यो विभागः ।
विशेषः—अन्येषां प्रधानादीनि, अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः ।
कारणाधिकारे यस्मादाह—ईश्वरः सर्वभूतानामिति । एष उपसंहारः—
सार्वकामिक इत्याचक्षते । निगमनम्—ईश ईशान ईश्वरोऽधिपतिर्ब्रह्मा
शिव इति ।
तथा पशुरिति कार्यपदार्थस्योद्देशः । तस्य विस्तरो—विद्या
कला पशवः । उत्पाद्या अनुग्राह्यास्तिरोभाव्यकालप्यविकार्यमस्पदस्य
बोध्यधिष्ठेयत्वे चेत्येवमाद्यः सूत्रविद्याधर्मार्थकामैर्भेदैर्दुःखान्तः विद्या(?) ।
कला द्विविधाः । कार्याख्याः करणाख्याश्च । तत्र कार्याख्याः पृथिव्याद्याः ।
करणाख्या बुद्ध्याद्याः । पशवश्च त्रिविधाः । देवा मनुष्यास्तिर्यञ्चः ।
तत्र देवा अष्टविधा ब्रह्माद्याः । मानुष्यं चानेकविधं ब्राह्मणाद्यम् ।
तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् । पशवः साञ्जना निरञ्जनाश्च ।
एवमाद्यो विस्तरः । विभागोऽपि—अन्या विद्या अन्याः कलाः अन्ये च
पशव इत्येवमाद्यो विभागः । विशेषः—अन्येषां प्रधानादीनि कारणानि,
तानीह शास्त्रे कार्यत्वेन व्याख्यातानि । तत्र प्रधानं कारणमन्येषां,
- Seems few words are missing here.
१४८ सभाष्ये पाशुपतसूत्रे
तदिह शास्त्रे पश्यनात् पाशकत्वात् कार्यत्वेन व्याख्यातम् । तथा पुरुषः
कारणमन्यत्र, इह शास्त्रे पशुत्वात् कार्यत्वेन व्याख्यातः । तथा कर्म-
मध्यत्वात् कालः स्वभावः उपसंहारवत् (१) । भूतानि त्रिकार्यत्वात्
कार्यत्वेन व्याख्यातानि । इत्येष विशेषः । उपसंहारः—सार्वकामिक
इत्यर्थः । निगमनं—विद्याकलाभूतानि ब्रह्मेति ।
तथा योगमिति योगपदार्थस्योद्देशः । तस्यैवं, चरतः, योगः प्रवर्तते
(अ० १, सू० १९, २०) उभयथा यष्टव्यः (अ० २, सू० ९) अत्यागतिं
गमयते (अ० २, सू० १७) नान्यभक्तिस्तु शङ्करे (अ० २, सू० २०) एवं,
देवनित्यता नित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः।
विभागः—क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि
(अ० १, सू० २१) गणपतिः (अ० १, सू० ३८) भूयिष्ठं संप्रवर्तते (अ० ५,
सू० १३) सिद्धः, गच्छेद् दुःखानामन्तम् (अ० ५, सू० २०, ३९) इत्येव-
माद्यो विभागः । ज्ञानशक्तिः क्रियाशक्तिश्च । तत्र ज्ञानशक्तिः श्रवणाद्या ।
क्रियाशक्तिः मनोजवित्वाद्या । इत्येवमाद्यो विभागः । विशेषः—अन्येषां
कैवल्यम्, इह तु विशेषो विकरणमिति । प्रतिकरण इति कैवल्यधर्मा-
तिशक्तिर्निष्कलमैश्वर्यमित्येष विशेषः । उपसंहारः—इत्येभिर्गुणैर्युक्त
इति । अतो यावन्ति वाक्यविशेषाणि सन्निकृष्टविप्रकृष्टानि निर्वचनानि
तानि च सर्वानिवर्चनानीति कृत्वा युक्तमुक्तम् ॥
एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्र-
सूत्रव्याख्याने पञ्चार्थभाष्ये पञ्चमोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥
॥ शुभम् ॥
अकारादिक्रमेण सूत्रसूची ।
सूत्राणि. पृष्ठम् . | सूत्राणि. पृष्ठम् .
अकलुषमतेः ४० | अपहतपाप्मा ८०
अक्षयः ४९ | अपतित्कुर्यात् ८७
अघोरेभ्यः ८९ | अपतितद्भाषेत् ८७
अजः ११२ | अप्रमादी गच्छेद् दुःखाना-
अजरः ५० | मन्तमीशप्रसादात् १४०
अतितप्तं तपस्तथा ६९ | अभिजायते ११३
अतिदत्तमतीष्टम् ६८ | अभीतः ४९
अतो योगः प्रवर्तते १२४ | अमङ्गलं चात्र मङ्गलं भवति ६१
अन्त्यागतिं गमयते ६९ | अमरः ५०
अत्रेदं ब्रह्म जपेत् ५२ | अवमतः ७८
,, ७१ | अवासा वा ३५
,, ८९ | अव्यक्तलिङ्गी ७८
,, १०७ | असङ्गः ११०
,, १४४ | असन्मानो हि यन्त्राणां
अथ घोरेभ्यः ८९ | सर्वेषामुत्तमः स्मृतः १००
अथातः पशुपतेः पाशुपतं | आपो वापि यथाकालमश्नी-
योगविधिं व्याख्यास्यामः १ | यादनुपूर्वशः १२०
अद्भिरेव शुचिर्भवेत् १२१ | आयतनवासी १२
अनिन्दितकर्मा १०४ | इत्येतैर्गुणैर्युक्तो भगवतो महा-
अनुस्नानम् १० | देवस्य महागणपतिर्भवति ५१
अनेन विधिना रुद्रसमीपं गत्वा १०६ | इन्द्रियाणामभिजयात् ११३
अपसव्यं च प्रदक्षिणम् ६२ |
ii
सूत्राणि. पृष्ठम्. | सूत्राणि. पृष्ठम् .
इन्द्रो वा अग्रे असुरेषु | गूढव्रतः ९४
पाशुपतमचरत् १०१ | गोधर्मा मृगधर्मा वा १२१
ईशानः सर्वविद्यानाम् १४४ | घोरघोरतरेभ्यः ९०
ईश्वरः सर्वभूतानाम् १४५ | चरतः ४१
उन्मत्तवदेको विचरेत लोके ९६ | चर्यायां चर्यायाम् ६६
उन्मत्तो मूढ इत्येवं मन्यन्ते | छित्त्वा दोषाणां हेतुजालस्य
इतरे जनाः ९९ | मूलम् १३२
उपस्पृश्य ३७ | जितेन्द्रियः ११७
उभयं तु रुद्रे देवाः पितरश्च ६३ | ज्येष्ठस्य ५७
ऋचमिष्टामधीयीत १२३ | ततोऽस्य योगः प्रवर्तते ४१
ऋषिर्विप्रो महानेषः १२६ | तत्पुरुषाय विद्महे १०७
एकः क्षेमी सन् वीतशोकः १३९ | तन्नो रुद्रः प्रचोदयात् १०८
एकवासाः ३४ | तस्मात् ७०
ओङ्कारमभिध्यायीत १२४ | ,, ८२
कलविकरणाय नमः ७४ | तस्मादुभयथा यज्ञव्यः ६२
कलितासनम् ५८ | दूरदर्शनश्रवणमननविज्ञानानि
कामरूपित्वम् ४४ | चास्य प्रवर्तन्ते ४१
कालाय नमः ७२ | देवनित्यः ११६
कुपथास्त्वन्ये १०५ | देववत् पितृवच्च ६३
कृतान्नमुत्सृष्टमुपाददीत ९७ | देवस्य ५६
क्राथेत् वा ८३ | धर्मात्मा १३१
गायत्रीमात्मयन्त्रितः १२३ | धर्मित्वं च ४६
गूढपवित्राणिः ९४ | न कश्चिद् ब्राह्मणः पुनरावर्तते १०६
गूढविद्या तपआनन्त्याय | नमस्ते अस्तु रुद्ररूपेभ्यः ९१
प्रकाशते ९२ |
iii
सूत्राणि. पृष्ठम्. | सूत्राणि. पृष्ठम्.
नान्यभक्तिस्तु शङ्करे ७१ | मण्टेत वा ८५
नित्यात्मा १११ | मनोजवित्वम् ४३
निन्दा ह्येषाऽनिन्दा तस्मात् १०३ | मनोऽमनाय नमः ७६
निन्द्यमानश्चरेत् १०४ | महादेवस्य दक्षिणामूर्तेः १४
निर्माल्यम् ११ | महादेवाय धीमहि १०८
परिभूयमानश्चरेत् ८० | महेश्वरः १२८
परिभूयमानो हि विद्वान् | मायया सुकृतया समविन्दत १०३
कृत्स्नतपा भवति ८८ | माहात्म्यमवाप्नोति ६७
परेषां परिवादात् ८१ | मांसमदुष्यं लवणेन वा ११९
पात्रागतम् ११९ | मूत्रपुरीषं नावेक्षेत ३५
पापं च तेभ्यो ददाति ८१ | मैत्रः ११२
प्राणायामं कृत्वा ३८ | यथालब्धोपजीवकः १३१
प्रेतवच्चरेत् ८३ | यद्यवेक्षेद यद्यभिभाषेत ३७
बलप्रमथनाय नमः ७४ | येन परिभवं गच्छेत् ८८
बुद्ध्या ९५ | योगी ११०
” १३७ | रुद्रः प्रोवाच तावत् ११५
ब्रह्मणोऽधिपतिर्ब्रह्मा १४५ | रुद्रस्य ५७
भजस्व माम् ५४ | रौद्रीं गायत्रीं बहुरूपीं वा
भवे भवे नातिभवे ५४ | जपेत् ३९
भवोद्भवः ५५ | रौद्रीं वा बहुरूपीं वा १२४
भस्मना त्रिषवणं स्नायीत ८ | लभते रुद्रसायुज्यम् १३१
भस्मनि शयीत ९ | लिङ्गधारी ११
भूयस्तपश्चरेत् ७० | वाग्विशुद्धः १२७
भूयिष्ठं सम्प्रवर्तते ११८ | वामः ५६
भैक्ष्यम् ११८ |
iv
सूत्राणि. पृष्ठम्. | सूत्राणि. पृष्ठम्.
वामदेवाय नमो ज्येष्ठाय नमो | सर्वभूतेषु ७९
रुद्राय नमः ७२ | सर्वविशिष्टोऽयं पन्थाः १०५
विकरणः ४५ | सर्वाणि द्वाराणि पिधाय ९५
व्यक्ताचारः ७८ | सर्वांश्चाविशति ४७
शर्वसर्वेभ्यः ९० | सर्वे चास्य वध्या भवन्ति ४८
शिवः १४६ | सर्वे चास्य वश्या भवन्ति ४६
शिवो मे अस्तु १४६ | सर्वेभ्यः ९०
शून्यागारगुहावासी ११६ | सर्वेषां चानावेश्यो भवति ४७
शृङ्गारेत वा ८६ | सर्वेषां चावध्यो भवति ४८
श्मशानवासी १२९ | सर्वेषां चावश्यो भवति ४७
षण्मासान्नित्ययुक्तस्य ११७ | सार्वकामिक इत्याचक्षते ६०
संचित्तम् १३८ | सिद्धयोगी न लिप्यते कर्मणा
स तेषामिष्टापूर्तमादत्त १०२ | पातकेन वा १२१
सत्पथः १०५ | सुकृतं च तेषामादत्ते ८२
सदा १४६ | स्त्रीशूद्रं नाभिभाषेत् ३६
सदा रुद्रमनुस्मरेत् १३२ | स्थापयित्वा च रुद्रे १३८
सद्योऽजातं प्रपद्यामि ५२ | स्पन्देत वा ८४
सद्योजाताय वै नमः ५३ | हर्षाप्रमादी ६४
सर्वज्ञता ४३ | हसितगीतनृत्तडुंडुंकारनमस्कार-
सर्वत्र चाप्रतिहतगतिर्भवति ५१ | जप्योपहारेणोपतिष्ठेत् १३
सर्वभूतदमनाय नमः ७५ | हृदि कुर्वीत धारणाम् १२५
[मुद्रा/Seal: ... मण्डल ... पुस्तकालय]
20068
This image contains a blank sheet of handmade/textured paper with natural fibers, creases, and flecks, but contains no written text or script to transcribe.
०५-४.३
शैव दर्शन
This page is a blank endpaper/flyleaf with handmade paper texture and contains no visible text to transcribe.
This image contains only a decorative cover or endpaper pattern (diagonal striped floral design) with no readable text, Sanskrit shlokas, or commentary.