पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 157, कुल 166 में से
संदर्भ में पढ़ें१४८ सभाष्ये पाशुपतसूत्रे
तदिह शास्त्रे पश्यनात् पाशकत्वात् कार्यत्वेन व्याख्यातम् । तथा पुरुषः
कारणमन्यत्र, इह शास्त्रे पशुत्वात् कार्यत्वेन व्याख्यातः । तथा कर्म-
मध्यत्वात् कालः स्वभावः उपसंहारवत् (१) । भूतानि त्रिकार्यत्वात्
कार्यत्वेन व्याख्यातानि । इत्येष विशेषः । उपसंहारः—सार्वकामिक
इत्यर्थः । निगमनं—विद्याकलाभूतानि ब्रह्मेति ।
तथा योगमिति योगपदार्थस्योद्देशः । तस्यैवं, चरतः, योगः प्रवर्तते
(अ० १, सू० १९, २०) उभयथा यष्टव्यः (अ० २, सू० ९) अत्यागतिं
गमयते (अ० २, सू० १७) नान्यभक्तिस्तु शङ्करे (अ० २, सू० २०) एवं,
देवनित्यता नित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः।
विभागः—क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि
(अ० १, सू० २१) गणपतिः (अ० १, सू० ३८) भूयिष्ठं संप्रवर्तते (अ० ५,
सू० १३) सिद्धः, गच्छेद् दुःखानामन्तम् (अ० ५, सू० २०, ३९) इत्येव-
माद्यो विभागः । ज्ञानशक्तिः क्रियाशक्तिश्च । तत्र ज्ञानशक्तिः श्रवणाद्या ।
क्रियाशक्तिः मनोजवित्वाद्या । इत्येवमाद्यो विभागः । विशेषः—अन्येषां
कैवल्यम्, इह तु विशेषो विकरणमिति । प्रतिकरण इति कैवल्यधर्मा-
तिशक्तिर्निष्कलमैश्वर्यमित्येष विशेषः । उपसंहारः—इत्येभिर्गुणैर्युक्त
इति । अतो यावन्ति वाक्यविशेषाणि सन्निकृष्टविप्रकृष्टानि निर्वचनानि
तानि च सर्वानिवर्चनानीति कृत्वा युक्तमुक्तम् ॥
एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्र-
सूत्रव्याख्याने पञ्चार्थभाष्ये पञ्चमोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥
॥ शुभम् ॥