पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 108, कुल 166 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः । १०१
(मूढप्रभृति ?) बहुवचनप्रयोगात् सन्देहः । अथ कियतां यन्त्राणाम् ? ।
तदुच्यते—सर्वेषाम् । अत्र सर्वेषामित्यशेषाणामित्यर्थः । सर्वेषामिति
षष्ठीबहुवचनम् । आह—षष्ठ्याः साकाङ्क्षत्वात् सन्देहः । तेषां
कारणात्मानो वर्तन्ते (?)। तदुच्यते—उत्तमः । अत्रोत्तम इति श्रेष्ठत्वे
परमविशुद्धित्यागादानभावादिषु । उक्तं हि—
“वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा ।
उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः ॥”
श्रेष्ठः । इह चोक्तम् उत्तम इति । आह—असन्मानः सर्वयन्त्राणामुत्तम
इति क सिद्धम् ? । उच्यते—इह । यस्मादाह—स्मृतः । अत्र स्मृत
इत्युक्तपर्यायः । महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः । विशिष्टः
कस्मात् ? । सर्वज्ञवचनादविसंवादित्वाच्च । नहि प्रत्यक्षदर्शिनां वचनानि
विसंवदन्तीत्यर्थः ॥ ९ ॥
आह—अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमाने क आद्यः
शोधकः ? । केन वा इदं विधानं चीर्णम् ? । आचरता वा किं फलं
प्राप्तम् ? । सोऽस्मत्प्रत्ययार्थं वाच्यः । तदुच्यते--
इन्द्रो वा अग्रे असुरेषु
पाशुपतमचरत् ॥ १० ॥
अत्र देवतानां राजा इन्द्रः । कथं गम्यते ? । असुरेष्वाचरण-
वचनात् । ब्राह्मणश्चायमिन्द्रः श्रेष्ठः । सूत्रे ब्राह्मण(अ० ४, सू० २०)-
ग्रहणात् शूद्रप्रतिषेधा(अ० १, सू० १३)च्च । इदि परमैश्वर्ये धातुः। तस्येन्द्रः।
इन्द्र उत्कृष्टः श्रेष्ठः । देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु