सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 107, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 107

१०० सभाष्ये पाशुपतसूत्रे
असन्मानो हि यन्त्राणां¹
सर्वेषामुत्तमः स्मृतः ॥ ९ ॥
अत्र अकारो मानप्रतिषेधे । मानोऽत्र द्विविधः । जात्यभिमानो
गृहस्थाभिमानश्च । तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति ।
पूज्यत्वादूर्ध्वगमनादीनां कार्याणामुच्छ्रितत्वात् त्रयाणामपि वर्णाना-
मुपदेशेन गुरुत्वाद् यज्ञकर्तृत्वात् त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति
प्रथमो मानो जात्युत्कर्षात् । तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात्
तत्कृतमानश्च । एतच्च मानद्वयमव्यक्तलिङ्ग(अ० ३, सू० १)वचनात्
प्रतिषिद्धम् । तथा--
“ वित्तं बन्धुर्वयः² कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ ”
एतानि चैकवासःप्रेताचरणगूढव्रतोपदेशिना (अ० १, सू० १०;
३, ११; ४, २) सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः । सन्
इति प्रशंसायामस्तित्वे च । अग्रे तदसन्मानचरिमकरणविशिष्टं च (१) ।
हिशब्दोऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः । यन्त्राणि अग्निष्टोमादीनि
मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि । यन्त्राणि च
कस्मात् ? यन्त्रं कर्मादयः। यस्माद्यन्त्रा लौकिका अमर्यादावस्था
भवन्तीत्यतो यन्त्राणि । यन्त्राणाम् इति षष्ठीबहुवचनम् । आह--
१. 'जन्तूनाम्' इति सूत्रपाठः.
२. 'वयः' इति मनुस्मृतिः २-१३६.