पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 106, कुल 166 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः । ९९
उन्मत्तो मूढ इत्येवं
मन्यन्ते इतरे जनाः ॥ ८ ॥
अत्र उन्मत्तः स एव । निरुक्तमस्य पूर्वोक्तम् । मूढ इति । मुहु
अपरिज्ञाने । अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं, मूढोऽयं मूर्खोऽयमिति
वक्तारो वदन्तीत्यर्थः । इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरि-
समाप्त्यर्थः । एवं यस्मादवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपन-
वसत्यर्थकृत्स्नतपांसि च व्याख्यातानि । एवम् इत्यतिक्रान्तापेक्षणे ।
मन्यन्ते इत्यवधारणे । इतरे इति (ये ?) गृहस्थब्रह्मचारिवानप्रस्थभिक्षु-
पाषण्डिनां ब्रह्मचर्याधिकृतानां ग्रहणम् । जना इति । जनी प्रादुर्भावे ।
जना इति वर्णाश्रमिणां जनानामधिकृतानां ग्रहणम् । उक्तं हि—
“जनेन हि जनो जातः जनं जनयसे जन ! ।
जनं शोचसि नात्मानं मात्मानं शोच मा जनम् ॥”
इत्येवं वक्तारो वदन्तीत्यर्थः ॥ ८ ॥
अत्रेदमाधिकारिकमसन्मानचरितप्रकरणं समाप्तम् ॥
आह—व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे
च ततः को गुणः ? यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा
निष्पाद्या इति ? । तदुच्यते—तं गुणं ज्ञात्वा वक्ष्यामः । अपिच
अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं
न ब्रवीति तत्तस्य हृदिस्थम् अशङ्कितमपलब्ध्योत्तरं ब्रूम इति कृत्वा