परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 368, कुल 373 में से
संदर्भ में पढ़ें३३८ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
'एओङ्-ऐऔच्'सूत्रयोर्ध्वनितैषा भाष्ये । तत्र अनेकपदघटितसूत्रे
प्रायेण पदलाघवविचार एव, न तु मात्रालाघवविचार इति 'ऊकालोऽच्,
अपृक्त एकाल्'त्यादिसूत्रेषु भाष्ये ध्वनितम् । तत्र हि सूत्रे "अल्ग्रहणहल्ग्रह-
णयोर्विशेषविचारे संज्ञायां हलग्रहणं 'प्यक्षत्रि'ये'ति सूत्रे अणिञोरिति वाच्य-
मिति त्रीणि पदान्यल्ग्रहणे तदेकं स्वादिलोपे हलग्रहणं प्येति सूत्रे अणिञो-
रिति न वाच्यमपृक्तस्येति वाच्यमिति त्रीण्येव पदानीति नास्ति लाघवकृतो
विशेषः" इत्युक्तम् ।
"अचि श्न्वो'रिति सूत्रे इण् इत्येव सिद्धे य्वोरिति संमृद्य ग्रहणाच्च
पूर्वेणेण्ग्रहणं तत्र विभक्तिनिर्देशे संमृद्य ग्रहणे च सार्धास्तिस्रो मात्रा इण्ग्रहणे
ध्वनितैवेति । 'कैमुतिक'न्यायसूचितार्थविशिष्टेत्यर्थः । तत्र हि "सन्ध्यक्षरेषु तपरो-
पदेशाभावे एचो ह्रस्वानुशासनेषु अर्धैकारार्धौकारयोर्वारणार्थम् 'एच इग्घ्रस्वादेशे'
इति सूत्रं कर्तव्यमि"त्युपक्रम्य "यदि हि तौ स्यातां तावेवायमुपदिशेत्" इत्युक्तम् । तथा
च प्रत्येकमेङिः एकमात्र लाघवानुरोधेन "तावेवायमुपदिशेदि"ति वदता भाष्यकृतैतदर्थं
सूचित इति स्पष्टमेव । इत्यादिसूत्रेष्विति । आदिना 'प्रत्ययस्य लुक्श्लुलुपः, एओङ्,
ऐऔजि'त्यस्य परिग्रहः। इत्युक्तमिति । अन्यथा मात्रालाघवकृतविशेषस्य सत्त्वात्तद-
सङ्गतिः स्पष्टैव ।
केचित्तु—संज्ञाशब्दानां सार्धमात्रिकत्वेन मात्रालाघवकृतविशेषाभावादुक्तयुक्त्या
पदलाघवकृतविशेषाभावाच्च लाघवकृतविशेषाभावोपपादनप्रयुक्तविरोधाभावेन, 'अचि
श्न्व'ति सूत्रोक्तभाष्यविरोधेन चानेकपदघटितसूत्रेषु मात्रालाघवविचारो नास्तीत्युक्त-
मयुक्तमेव। 'अपृक्त' इति सूत्रमेव सार्धमात्रिकत्वं संज्ञानामित्यत्र मानम् । 'ऊकाल' इति
सूत्रे पदगौरवप्रदर्शनेन मात्राकृतगौरवस्यापि स्पष्टमुक्तप्रायतया पृथङ् नोक्तमिति न
तद्विरोधलेशोऽपि । अनुगमप्रस्तावे प्रायपदनिवेशनं तु तदसामर्थ्यबोधनमेवेति प्राहुः ।
संमृद्य ग्रहणादिति । आदेशेन स्थानिनौ निवर्त्त्य 'य्वोरि'त्यादेशरूपेण ग्रहणा-
दित्यर्थः । इण्ग्रहणे तिस्रो मात्रा इतीति । 'य्वोरि'त्यस्य स्थाने इण् इत्युच्चारणे 'इण्,
तावेवायमुपदिशेदितीति । नन्वेवं मात्रिकयोरेव गुणसंज्ञा स्यात्, तपरत्वादिति चेन्न ।
तत्र 'ए-ओ' इति स्वरूपयोर्दीर्घयोर्निर्देशात् । एवमपि अर्धमात्रालाघवं भवति ।
मूले—अपृक्तस्येति वाच्यमितीति । अपृक्तशब्दस्य संज्ञाशब्दत्वादखण्डत्वमिति
तात्पर्यम् ॥ १३३ ॥
इति श्रीवैयाकरणप्रवर-'गणपति-शास्त्रि-मोकाटे'कृततत्त्वप्रकाशिकाभिधे
'भूति'व्याख्याने शास्त्रशेषनामकं तृतीयं प्रकरणम् ।