सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 367, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 367

१३२-१३३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३७
ननु ‘जभोऽचि, रधेश्च, नेटचलिटी’त्येव सूत्र्यतां किं दीर्घधिग्रहणे-
नेत्यत आह—
पदगौरवाद्योगविभागो गरीयान् ॥ १३२ ॥
—: ❀ :—
प्रतिवाक्यं भिन्नवाक्यार्थबोधकल्पनेन गौरवं स्पष्टमेव । परन्तु भाष्या-
सम्मतेयम्, ‘टाङसि’ति सूत्रस्थभाष्यविरुद्धा च ।
तत्र च इनादेशे इकारप्रत्याख्यानं योगविभागेनैव कृतमिति
बहवः ॥ १३२ ॥
अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः ॥ १३३ ॥
ग्रहणस्य फलान्तराप्रदर्शनेन तस्य यङ्लुग्व्यावर्तकत्वमेव भाष्याभिमतमिति स्पष्टमेव ।
किञ्च—तत्तद्गणप्रयुक्तश्यन्नादिवारणमप्यशक्यम्, यङ् लुगन्तस्यादादौ पाठस्य भ्वादि-
यङ्लुगन्तप्रकृतिकशपो निवर्तनेन चारितार्थ्यात् । यङ्लुकश्छान्दसत्वकल्पनया तत्तत्कार्यं-
वारणं तु उक्तयुक्त्याऽयुक्तमेवेति प्राहुः ॥ १३१ ॥
गरीयानिति । अतिशयगौरवविशिष्ट इत्यर्थः । गौरवस्य क्लेशजनकत्वेन हेयत्वं
लोकप्रसिद्धमिति नापूर्वमिति बोध्यम् ।
गौरवमेव उपपादयति—प्रतिवाक्यमिति । प्रत्येकं भिन्नसामग्र्या अपेक्षितत्वात्तस्यां
चानेकपदार्थसम्मेलनावश्यकतया गौरवं स्फुटमेवेत्यर्थः । भाष्यासम्मतेति । ईदृश-
गौरवस्य कुत्रापि तेनानुक्तेरिति भावः । ननु ‘अप्रतिषिद्धमि’ति न्यायात् लोकसिद्धाया
अस्या भाष्यानुमतत्वमित्यत आह—टाङसीतीति ।
बहव इति । परे तु—तद्भाष्यमेकदेश्येव ; अत एव ‘ऋलृक्’ सूत्रादौ भाष्यकृता
कृतं “महतो वंशस्तम्बाल्लट्वाऽनुकृष्यत” इत्यनेन स्वल्पगौरवस्य महता क्लेशेन
वार्तिककृता कृतस्य परिहारस्यावहेलनं सङ्गच्छते । किञ्च—वर्णगौरवात् योगविभाग-
गरीयस्त्वस्योक्तभाष्यविरुद्धत्वेऽपि निरुक्तपरिभाषायां लोकसिद्धायां भाष्यविरोधाभाव
इति वदन्ति ॥ १३२ ॥
अर्धमात्रालाघवेनेति । हेतावेषा तृतीया । अर्धमात्रालाघवजन्यमुत्सवं पुत्रोत्सवम् =
पुत्रोत्सवसदृशं मन्यन्ते, पुत्रोत्सववत् सन्तुष्यन्तीत्यर्थः ।
अन्ये तु—प्रकृत्यादित्वादेषा तृतीया । अर्धमात्रालाघवाभिन्नं पुत्रोत्सवम् = पुत्र-
जन्मरूपं सुखजनकं व्यापारं मन्यन्ते इत्यर्थः । तथा च विशिष्टसुखजनके पुत्रजन्मरूपे
व्यापारे अर्धमात्रालाघवाभेदबोधने तादृशसुखजनकत्वमुक्तलाघवस्यार्थात् सिद्ध्यति ।
किञ्च—अत्रापि शब्दशेषेण अर्धमात्रालाघवेनापि पुत्रोत्सवं वैयाकरणा मन्यन्ते, किमुत
ततोऽधिकलाघवेनेति ‘कैमुतिक’न्यायेन मात्रादिकृतलाघवस्याऽऽदरणीयतामाहुः ।
४३