परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 349, कुल 373 में से
संदर्भ में पढ़ें११२-११३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१९
ध्वनितं चेदं ‘कर्मप्रवचनीययुक्ते द्वितीये’ति सूत्रे भाष्ये । तत्र हि
‘पञ्चम्यपाङ्परिभिरि’ति सूत्रेण लक्षणाद्योतकपरियोगे पञ्चमी-
माशङ्क्य, ‘यद्यप्ययं परिर्दृष्टापचारो वर्जने चावर्जने च, अयं खल्वपशब्दो-
ऽदृष्टापचारो वर्जनार्थ एव कर्मप्रवचनीयस्तस्य कोऽन्यः सहायो भवितुमर्ह-
त्यन्यो वर्जनार्थात्, यथाऽस्य गोः सहायेनार्थ इति गौरेवाऽऽनीयते नाश्वो न
गर्दभ’ इत्युक्तम् । तेन हि सदृशानामेव प्रयोगे सहायभावो बोधितः ।
‘द्विस्त्रिश्चतुरि’ति सूत्रे साहचर्येणैव कृत्वोऽर्थस्य ग्रहणे सिद्धे कृत्वो-
ऽर्थग्रहणादेषाऽनित्या, तेन ‘दीधीवेवीटामि’त्यत्र धातुसाहचर्येऽपि आगम-
स्येटो ग्रहणमित्यन्यत्र विस्तरः ॥ ११२ ॥
ननु ‘अस्थि’त्यनङ् ‘प्रियसक्थ्ना ब्राह्मणेने’त्यत्र न स्यात्, अङ्गस्य
नपुंसकत्वाभावादत आह--
श्रुतानुमितयोः श्रुतसम्बन्धो बलवान् ॥ ११३ ॥
-: ❀ :-
श्रुतेनैव सम्बन्धो नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः, प्रकरणादितः
श्रुतेर्बलवत्त्वादिति भावः । एवञ्च तत्र लिङ्गमस्थ्यादीनामेव विशेषणं
नाङ्गस्य । शिशोलुङ्नुम्विधिषु तु गृह्यमाणस्याभावात् प्रकरणप्राप्ताङ्गस्यैव
विशेषणम् ।
एतदर्थकरणे प्रमाणमाह—ध्वनितमिति । दृष्टापचार इति । परिशब्दो वर्जनतद-
भावयोर्लोके दृष्टव्यवहारः, अपशब्दः पुनर्लोके वर्जन एव दृष्टव्यवहार इत्यर्थः ।
अनित्येति । वस्तुतस्तु—अनित्यत्वकल्पनापेक्षया यत्राप्रवृत्तिरिष्टा तत्रान्यधर्मेण
सादृश्यं ग्राह्यम् , ‘द्विस्त्रिरि’त्यत्र सुजन्तत्वेन साहचर्यग्रहणापत्त्या चतुष्पञ्चाशदित्यादि-
सुजर्थबहुव्रीहौ षत्वानापत्तिरतः कृत्वोऽर्थग्रहणमिति भावः । ‘दीधीवेवीटामि’त्यत्र
हलनुबन्धकसाहचर्यादागमस्यैवेटो ग्रहणम्, न तु धातोरिति बोध्यम् ॥ ११२ ॥
बलवानिति । “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्”
इत्यनेन श्रुत्यपेक्षया लिङ्गस्य दुर्बलत्वबोधनात् अस्थ्यादीनां श्रुतत्वेन प्रथममुपस्थित्या
नपुंसकपदार्थस्य तेन सहान्वये स्वरितत्वादिना लिङ्गेन पश्चादुपस्थितस्याङ्गस्य तदन्तस्य
च निराकाङ्क्षत्वान्नन्वय इति न्यायमूलेयम् ।
अनुमितेनेति । लैङ्गिकेनेत्यर्थः । प्रकरणादिप्राप्तेनेत्यर्थस्तु न युक्तः, प्रयाजादा-
विव उभयाकाङ्क्षारूपपारिभाषिकप्रकरणस्यात्र असम्भवात् । गृह्यमाणस्याभावादिति ।
श्रुतानुमितयोः सम्बन्धप्राप्तौ श्रुतसम्बन्धस्य बलवत्त्वमिति परिभाषायाश्च श्रुतसम्बन्धा-
सम्भवादेव अश्रुतेन अङ्गेन तदन्तेन सह तत्सम्बन्ध इति भावः ।