परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 26, कुल 373 में से
संदर्भ में पढ़ेंपरि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः
७९ 'अव्ययेऽयथाभिप्रेताख्याने' अनित्या अनित्यत्वन्तु 'तृतीया च होश्छन्दसि'
(३.४.५९) इति सूत्रे णमुल्- (२.३.३) इति सूत्रे चानुकृष्टस्य
ग्रहणं ज्ञापकम्। द्वितीयापदस्य 'अन्तराऽन्तरेण युक्ते'
(२.३.४) इति उत्तरसूत्रेऽनुवृत्तत्वाद्
बोध्यम्।
'लुटि च कॢपः' (पा० १.३.९३)
इति सूत्रस्थेन अनुवृत्त्यर्थकचकार-
प्रत्याख्यानेन 'कुलिजाल्लुक्खौ' च
(५.१.५५) इति सूत्रभाष्यविरोधेन
चेयमस्वीकार्या।
८०. नोत्तरपदे०' (६.२.१४२) इति × 'उच्चैरुदात्तः' (१.२.२९) इति सूत्रे
सूत्रे पृथिव्यादिपर्युदासो कैयटेन अनावश्यकत्वोक्तेः, भाष्य-
ज्ञापकः। कृताऽपि तदुक्तेर्ध्वनिनोपबृंहितत्वाच्च
इयमस्वीकार्या।
८१. 'यतोऽनावः (६.१.२१३) इति नित्या ×
सूत्रे अनोपप्रतिषेधो ज्ञापकः।
८२. 'वामदेवाड् ड्यड्ढ्यौ' नित्ये टीकाकृतस्तु—'परे तु' इत्यादिना
(४.२.९) इति सूत्रे ड्या- उभयोः परिभाषयोरेकैव परिभाषा
ड्यतोर्द्वित्वकरणमेनयो- कर्तव्या, महालाघवादिति (२८१
र्ज्ञापकम्। पृष्ठे) प्राहुः।
८४. 'णचः स्त्रियाम्०' (५.४.१४) नित्या ×
इति सूत्रे स्त्रियामित्युक्ति-
र्ज्ञापिका।
८५. 'प्रतेरंश्वादयस्तत्पुरुषे' ,, ×
(६.२.१९३) इति सूत्रनिर्दिष्टे
अश्वादिगणे राजन्शब्दपाठो
ज्ञापकः।
८७. 'बिल्वकादिभ्यश्छस्य लुक् ,, न्यायसिद्धाऽपीयम्, लौकिकोऽयं न्यायः।
(६.४.१५३) इति सूत्रे एकैकस्मिन् प्रयोजने येषां साधिकार-
छग्रहणं ज्ञापकम्। स्तत्र अन्यतरनिवृत्तौ इतरनिवृत्तिः'
इति कैयटोक्तेः, 'समुच्चयार्थकै'-
त्यादिग्रन्थकृदुक्तेश्च (पृ० २९५)।
८८. 'कामताच्छील्ये' (६.४.१७२) अनित्या अनित्यत्वन्तु 'छात्रादिभ्योऽण् (पा०
इत्यत्र कामंशब्दस्य निपातनात् ४.४.६२) इति वक्तव्ये णग्रहणात्।
सिद्धिर्ज्ञापिका।
- २४ -