सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 13, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 13

तस्यां तस्यां परिभाषायां यावान् विशेषो मत-मतान्तरं वा, नित्याऽनित्यत्वे बीजम्,
ग्रन्थकर्तृमतसमीक्षा च उट्टङ्किता । इतः परमधिकं द्रष्टव्यं तत्र तत्र विभागे समु-
ल्लिखिताः पृष्ठसंख्याः समाश्रित्य मूलग्रन्थतोऽवसेयम् ।
१. ( सूत्रसिद्ध ) - वाचनिको [ क ]
परि० क्र० विवरणम् विशेष
१२. 'षष्ठी स्थाने योगा' (पा० ७५ पृष्ठे भूतिव्याख्यायां 'केचित्तु' इत्यादिग्रन्थेन
सू०१.१.४९ इति सूत्रसिद्धा । परिभाषेयं खण्डिता । 'तत्त्वप्रकाशिकायाम्' च,
✗ (७७ पृष्ठे) 'वस्तुतस्तु' इत्यादिना भाष्याभिमततया
पुनर्मण्डितेयमिति ततोऽवसेयम् ।
१३. 'स्थानेऽन्तरतमः' (१.१.५०)
इति सूत्रसिद्धा । ✗ ✗
१४. 'स्वं रूपं शब्दस्या०(१.१.६९) शास्त्रीयन्यायसिद्धाऽपीयम् ; विशिष्टरूपोपादाने
इति सूत्रसिद्धा । उपस्थितार्थस्य शब्दं प्रति विशेष्यतयाऽन्वयसम्भवे
त्यागे मानाभावः' इति युक्तेः । एतेन भाष्यकृता
'स्वं रूपमि'ति सूत्रस्य प्रत्याख्यानादस्याः स्वीकारे
किं बीजमित्यपास्तम् ।
१८. 'स्वरितेनाधिकारः' ज्ञापकसिद्धाऽपीयम्, एचोऽयवायावः (६.१.७८) इति
(१.३.११) इति सूत्रसिद्धा । सूत्रे 'इको यणचि' (६.१.७७) इत्यतः 'अचि'
इत्येकदेशानुवर्तनस्य ज्ञापकत्वात् ।
२१. 'प्रत्ययलोपे०' (१.१ ६२) वार्तिककृत्तैव इयं परिभाषा स्वीक्रियते, न तु
इति सूत्रार्थप्रपञ्चभूता । भाष्यकृता । तेन च प्रत्ययलक्षणसूत्रं नियमार्थमेव
अङ्गीकृतमिति १०० पृष्ठे तत्त्वप्रकाशिका द्रष्टव्या ।
२३. 'यस्मात् प्रत्ययविधिः०' प्रथमसूत्रेण तदाद्यन्तांशः, द्वितीयेन च तदन्तांशः
(१ ४.१३) 'येन विधिः०' सिद्ध इति विवेकः ।
(१ १.७२) इति सूत्राभ्यां
सिद्धा ।
२९. 'येन विधिः' इति सूत्रार्थ- परिभाषायां पदाधिकारपदेन उत्तरपदाधिकारः
प्रपञ्चभूता । केवलपदाधिकारश्च ग्राह्यः । तत्रापि उत्तरपदा-
धिकारस्थे 'पादस्य पदाज्याति० (६ ३.५२) इति
सूत्रे पादपदेन पादान्तस्य न ग्रहणम्,
लक्ष्यानुरोधात् ।
३१. 'समासप्रत्ययविधौ प्रतिषेध ज्ञापकसिद्धापीयम्, 'सपूर्वाच्च' (५.२.८७) इति-
उगिद्ग्रहणवर्ज्यम्' इति सूत्रस्य ज्ञापकत्वात् ।

  • ११ -