सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 12, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 12

परिभाषेन्दु-पीयूषम्
वैनापुरकरोपाह्नो गोविन्दो नृहरेः सुतः ।
न्याय-वेदान्त-साहित्याचार्यो राष्ट्रपुरस्कृतः ॥ १ ॥
'भट्टभट्टा'न्वयोद्भूतं नत्वा गोपालसद्गुरुम् ।
मध्नाति परिभाषौघं पीयूषप्राप्ति-हेतवे ॥ २ ॥
परिभाषेन्दुशेखरमारभता आचार्यश्रीनागोजीभट्टेन 'प्राचीनवैयाकरणतन्त्रे०'
इत्यादिना ग्रन्थसन्दर्भेण एतद्ग्रन्थप्रतिपादयिष्यमाणस्य विषयस्य निर्देशः कृतः ।
तदनुसारं वाचनिक्यः, न्यायसिद्धाः ज्ञापकसिद्धाश्च परिभाषाः व्याख्येयत्वेन परिगृहीताः
दरीदृश्यन्ते । वस्तुतो विचार्यमाणे ग्रन्थकर्त्रा ज्ञापक-न्यायासिद्धा काऽपि परिभाषा
व्याख्येयत्वेन न परिगृहीता, तत्र तत्र 'वाचनिक्यैषा' इत्याद्युल्लेखस्तु ज्ञापक-न्याय-
सिद्धानामनुपन्यासपर एवेति अपरिभ्रान्ताष्टीकाकृतः ; तथापि वाचनिकीत्वादिना
तत्तत्परिभाषाणां विभाजनं नात्यन्तमनुचितम्, बहुभिर्वैयाकरणैस्तथा विभागस्य
परिग्रहात् । अत्र वाचनिक्यपि ज्ञापकसिद्धा न्यायसिद्धा च चेदुभयोः सामानाधिकरण्येन
विभागासम्भवस्तु कथमपि न शङ्क्यः, उपधेयसङ्करेऽपि उपाधेरसङ्करात्, ज्ञापक-
न्यायसिद्ध-'ताच्छीलिकेषु'-इत्यादिवत् । अतोऽस्माभिरपि परिभाषा एतास्तिस्रा विभ-
ज्यन्ते-( १ ) वाचनिकी, ( २ ) न्यायसिद्धा, ( ३ ) ज्ञापकसिद्धा चेति भेदात् । एवम्
आद्याः द्वितीयाश्च क्रमेण ( क ) सूत्रसिद्धवाचनिकी, ( ख ) स्वतन्त्रवाचनिकी च ; ( क )
लौकिकन्यायसिद्धा, (ख) शास्त्रीय-न्यायसिद्धा चेति भेदात् द्विधा द्विधा विभज्यन्ते ।
व्याख्येयपरिभाषात्वञ्च 'सङ्केतग्राहकभिन्नत्वे सति शब्दधर्मिक-साधुत्वप्रकारकशास्त्र-
जन्याऽप्रामाण्यज्ञानानास्कन्दितबोधे सहकारित्वेन मुन्यभिप्रेतत्वे सति पाणिन्युच्चरित-
भिन्नत्वम्' इत्यन्यदेतत् ।
ता इमा परिभाषाः कतन्नाम वाचनिक्यः, न्यायसिद्धाः ज्ञापकसिद्धाश्च ?
नित्या अनित्या वा ? न्यायसिद्धत्वेऽपि ज्ञापकसिद्धत्वमस्ति न वा ? इत्यादिप्रश्नानां
सम्यग् ग्रन्थावगाहनेन जायमानो बोधो झटिति बुभुत्सूनां परीक्षार्थिनाम्, अन्येषाञ्च
सुकुमारमतीनां कृते कृच्छ्राय भवेदित्यवधार्य यथासंभवं मानचित्ररूपेण तद्विवरणं
विधाय व्याकरण-मन्दाकिनीसमवगाहमानानां चेतांसि अनेन 'परिभाषेन्दुपीयूषेण'
शोधपत्रेण परिपोष्यते । यद्यनेन व्यापारेण तेषां स्तोकमप्युपकृतं भवेत्तदा जनोऽयं
श्रमस्य साफल्यं मन्येत ।
शोधपत्रेऽस्मिन् परिभाषाशब्दराशीः अनुपन्यस्य केवलं ग्रन्थानुगृहीता तदीय-
क्रमाङ्का एवोपन्यस्ताः । एवं 'विशेष'विभागे भूति-तत्त्वप्रकाशिकयोः, मूलग्रन्थे च

  • १० -