परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 117, कुल 373 में से
संदर्भ में पढ़ें१५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ८७
वत्त्वेनोपस्थितिरिति तस्य विशिष्यार्थोपस्थापकत्वाभावात् । निपातपदं तु
चादित्वेनैव चादीनामुपस्थापकमिति तदुद्देश्यककार्यविधायके 'ओदि'त्यादौ
एतत्प्रवृत्त्या 'गोऽभवदि'त्यादौ दोषो न ।
केचित्तु—विभक्तिसामान्यानिमित्तकत्वं पदकार्यत्वम् ; 'भुवो वुगि'त्यस्य
तिङ्-विभक्तिनिमित्तकत्वेन पदकार्यत्वाभावात्परिभाषाया अप्रवृत्त्या वुकि 'बभूवे'त्येव
रूपमिति वदन्ति ।
अन्येषां पदकार्यत्वलक्षणानि विस्तरभयान्न दूषितानि ।
विशिष्यार्थोपस्थापकत्वाभावादिति । आनुपूर्व्या साक्षादवच्छिन्नमुख्यविशेष्यता-
प्रयोजकपद एव एतन्न्यायस्य प्रवृत्त्या प्रातिपदिकपदस्य सङ्केतसम्बन्धेन प्रातिपदिक-
पदवति शक्तेः प्रातिपदिकपदनिष्ठविशेष्यतायाः प्रातिपदिकशब्दत्वरूपानुपूर्व्या साक्षाद-
वच्छिन्नत्वेऽपि तद्वन्निष्ठविशेष्यता निरूपितप्रकारतासामानाधिकरण्येन तस्या मुख्यत्वा-
भावात् प्रातिपदिकपदवन्निष्ठविशेष्यताया मुख्यत्वेऽपि प्रातिपदिकशब्दत्वरूपाऽऽनुपूर्व्या
साक्षादवच्छिन्नत्वा भावेन प्रातिपदिकपदस्य तथात्वाभावात् । निपातपदस्य तु निपात-
पदवत्त्वोपलक्षितचाद्यन्यतमत्वावच्छिन्ने शक्ते तत्प्रयोज्यमुख्यविशेष्यतायाः चादित्व-
रूपानुपूर्व्या साक्षादवच्छिन्नत्वेन तस्य तत्त्वम् ।
केचित्तु—विभक्तिसामान्यानिमित्तकत्वं पदकार्यत्वमिति । न चैवं गौरसदृशार्थक-गौर-
शब्दे ङीष् न स्यादिति वाच्यम् ; 'शूद्रा च' इति वार्त्तिके जातिग्रहणेन स्त्रीप्रत्यये गौणमुख्य-
न्यायाप्रवृत्तेः । तत्र जातिग्रहणं हि 'शूद्रस्य स्त्री, शूद्री' इत्यादौ टापोऽप्रवृत्तये । स्त्रीप्रत्ययेषु गौण-
मुख्यन्यायप्रवृत्त्यङ्गीकारे तु तेनैव वारणे तद्ग्रहणं व्यर्थमेव स्यादिति भावः ।
नन्वेवमपि टीकोक्तं पदकार्यत्वलक्षणमसङ्गतम् ; 'त्वद्भवति' इत्यत्र स्त्रीत्वानिमित्तकत्वेन
सुब्निमित्तकत्वेन च केषाञ्चिन्मतेऽपि विभक्त्यनिमित्तकत्वेन च पदकार्यतया गौणमुख्यन्यायप्रवृत्त्या
'प्रत्ययोत्तरपदयोश्च' इत्यनेन त्वादेशानापत्तेरिति चेन्न । 'प्रत्ययोत्तरपदयोश्च' इत्येतस्यापि
विभक्तिनिमित्तकत्वात् । विवेचयिष्यते चेदम् 'अन्तरङ्गानपि' इति परिभाषाव्याख्यानावसरे ।
हैमवतीकारास्तु—स्त्रीत्वानिमित्तकत्वे सति . प्रातिपदिकप्रकृतिक-प्रत्ययमात्रनिमित्तकत्वं
पदकार्यत्वम् । अत एव 'भूरिव आचचार, बुभाव' इत्यस्य सिद्धिरिति वदन्ति ।
लघुजटाजूटकारास्तु—पदात्परत्वव्याप्यविषयताप्रयोजकपदघटितशास्त्रविधेयत्वं पद-
कार्यत्वमित्याहुः ।
चादित्वरूपाऽऽनुपूर्व्या साक्षादवच्छिन्नेति । साक्षादवच्छिन्नत्वम्-स्वावच्छिन्नत्वे सति
स्वावच्छिन्नावच्छेदकतानिरूपितावच्छेद्यत्वाभाववत्त्वम् । 'चादित्वे'त्यस्य चत्व वात्वेत्याद्यर्थः ।
अन्यतमत्वञ्च—स्व निष्ठभेदप्रतियोगितावच्छेदकतावच्छेदकीभूतभेदप्रतियोगितावच्छेदकधर्मवत्त्वमेव ;
तद्धि चत्वादिरूपमेव, तेन च साक्षादवच्छिन्नमुख्यविशेष्यताप्रयोजकत्वं निपातस्य । निपातपदवत्ता