सामग्री पर जाएँ
सर्वकोश
परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

Parasurama Kalpasutra with Vidya Niwas Mishra Commentary

भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा

DevanagariHindipublished320 पृष्ठ

पृष्ठ 82, कुल 320 में से

संदर्भ में पढ़ें
पृष्ठ 82

४० परशुरामकल्पसूत्रम्
शिवो हकारः, तेन युक्तः 'सौ'वर्णः सौ इति वर्णः, स कर्णिकायां
कमलमध्यदेशे यस्य एतादृशे। अत्र पूर्वोक्तवर्णोपरि विसर्गोऽपि योजनीयः
"व्योमेन्द्रौरसनार्णकर्णिकम्" इति शङ्करभगवत्पादैरुक्तत्वात्। इमानि सर्वाणि
कमलविशेषणानि। स्वरा अकारादि-विसर्गान्ताः षोडश। तेषां द्वन्द्वं द्वयं द्वयं तेन
जुष्टं युक्तं किञ्जल्काष्टकं पत्रयुगमध्यवर्तिदेशविशेषो यस्येति बहुव्रीहिः। कश्च चश्च
टश्च तश्च पश्च यश्च लक्ष इति द्वन्द्वः, द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सम्बध्यते इति
न्यायेन वर्गपदं सर्वैः सम्बध्यते। तथा च कवर्गमारभ्य पवर्गपर्यन्तं पञ्च पञ्च
वर्णाः। यवर्गः चत्वारः शवर्गोऽपि। लक्ष इति लवर्गः। एवमष्टवर्गैर्युक्तानि
अष्टदलानि यस्येति बहुव्रीहिः। एकैकदले एकैकं वर्गं लिखेदिति फलितार्थः।
केसरेषु दलेषु च वर्णलेखने क्रमाकाङ्क्षायां प्राच्यादिक्रम एव वर्त्तव्यः।
दिशां यदष्टकं प्राच्यादीशान-दिगन्तं तेषु स्थितौ वकारठकारौ यस्मिन् ईदृशं
चतुरस्रं यस्मिन्निति बहुव्रीहिः। ईदृशे मातृका-संज्ञके यन्त्रे शिष्यं निवेश्य
स्थापयित्वा, तेन कुम्भाम्भसा तिसृभिः विद्याभिः श्रीश्यामा-वार्त्ताली-विद्याभिः
स्नपयेत्। अयमेव पूर्णाभिषेक इत्युच्यते।।३८।।
चतुरस्रमातृकायन्त्र