सामग्री पर जाएँ
सर्वकोश
परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

Parasurama Kalpasutra with Vidya Niwas Mishra Commentary

भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा

DevanagariHindipublished320 पृष्ठ

पृष्ठ 80, कुल 320 में से

संदर्भ में पढ़ें
पृष्ठ 80

३८ परशुरामकल्पसूत्रम्
मान्त्रीदीक्षाप्रयोगं वक्तुमुपक्रमते
त्रिकटु-त्रिफला-चतुर्जात-तक्कोल-मदयन्ती-सहदेवी-दूर्वा-
भस्म-मृत्तिका-चन्दन-कुङ्कुम-रोचना-कर्पूरवासितजलपूर्णं वस्त्रयुगवेष्टितं
नूतनकलशं बालाषडङ्गेनाभ्यर्च्य श्रीश्यामा-वार्तालीचक्राणि निःक्षिप्य
तिसृणामावरणमन्त्रैरभ्यर्च्य संरक्ष्यास्त्रेण प्रदर्श्य धेनुयोनी ।। ३७ ।।
त्रिकटुः-पिप्पली-शुण्ठी-मरीच्यः।
त्रिफला-हरीतकी-धात्री-विभीतक्यः।
तदुक्तं वैद्यसारे
शुण्ठी मरीचिपिप्पल्यः प्रोक्तास्त्रिकटुसंज्ञकाः।
त्रिफलेति समाख्याता पथ्या-धात्री-विभीतकैः।।
चतुर्जातम्—उशीरैलालवङ्गनागकेसराणि।
तदुक्तं मदनमहार्णवे
लवङ्गमेलोशीरं च त्रिसुगन्धं प्रकीर्त्तितम्।
नागकेसरसंयुक्तं चतुर्जातं प्रचक्षते ।।
तक्कोलः—मरीचिसदृशस्ताम्बूलेन सह भक्ष्यः शैत्योपचारहेतुवस्तु-
विशेषः।
मदयन्ती सहदेवी। वैद्यके प्रसिद्धे आरण्यके। दूर्वा-भस्म-मृत्तिकाः
प्रसिद्धाः। एतैर्युक्तं जलेन साकं वासितं चन्दनम्, कुङ्कुमं काश्मीरम्, रोचना
गोरोचनं, कर्पूरं प्रसिद्धम्। एतैर्वासितं यज्जलं तेन पूर्णं। वस्त्रयुगेन वेष्टितं
नूतनम् अभुक्तं कलशं बालाषडङ्गेन।
(“ऐं हृदयाय नमः, क्लीं शिरसे स्वाहा, सौः शिखायै वषट्, ऐं
कवचाय हुम्, क्लीं नेत्रत्रयाय वौषट्, सौः अस्त्राय फट्”) अग्नीशासुरवायु-
कोणेषु मध्ये पूर्वादिदिक्षु क्रमेण अभ्यर्च्य, श्रीश्च श्यामा च वार्त्ताली चेति तासां
चक्राणि निक्षिप्य जले स्थापयित्वेत्यर्थः। तिसृणां ललितादीनामावरणमन्त्रै-
रभ्यर्च्य पूजयित्वा, अस्त्रेण संरक्ष्य, धेनु-योनि-मुद्रे प्रदर्श्य ।। ३७ ।।