सामग्री पर जाएँ
सर्वकोश
परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

Parasurama Kalpasutra with Vidya Niwas Mishra Commentary

भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा

DevanagariHindipublished320 पृष्ठ

पृष्ठ 46, कुल 320 में से

संदर्भ में पढ़ें
पृष्ठ 46

४ परशुरामकल्पसूत्रम्
इदं जगदित्याकारिका ईश्वरनिष्ठा भेदविषयिणी वृत्तिर्मायापदवाच्या षष्ठं
तत्त्वम्।
पूर्वोक्त-विद्यातिरोधान-शक्तिमती तद्विरोधिनी अविद्यापदवाच्या सप्तमं
तत्त्वम्।
जीवनिष्ठं सर्वकर्तृत्वं यत्किञ्चित्कर्तृत्वेन संकुचितं तदेव कलापदवाच्यम्
अष्टमं तत्त्वम्।
पूर्वोक्तरीत्या जीवनिष्ठा या नित्यतृप्तिः सैव केषुचिद्विषयेषु अतृप्त्यां
संकुचिता राग-पदवाच्या नवमं तत्त्वम्।
जीवनिष्ठा या नित्यता तस्या आच्छादने सति सैव नित्यता अस्ति,
जायते, वर्धते, विपरिणमते, अपक्षीयते, विनश्यतीति षड्भावयोगात्
संकुचिता कालपदवाच्या दशमं तत्त्वम्।
परशिव-जीवयोरभेदाद् यथा परशिवे सर्वस्वातन्त्र्यं तथा जीवेऽप्यस्ति।
तस्य सर्वस्वातन्त्र्यस्य पिधानं पूर्वोक्तविद्यया कृतम्। तदेव कारणान्तरापेक्षं
यत्कारणमपेक्षते तन्नियतिपदवाच्यम् एकादशं तत्त्वम्।
एतादृश-नियति-काल-राग-कलाविद्याश्रयो जीवः, सत्त्वरजस्तमोगुणानां
साम्यरूपा प्रकृतिः चित्तापरपर्याया यदा सत्त्वतमसी अभिभूय रजःप्रधानं
तन्मनःपदवाच्यं संकल्पहेतुः, रजस्तमसी अभिभूय सत्त्वप्रधानमन्तःकरणं
तद्बुद्धिपदवाच्यं निश्चयहेतुः, यदा रजःसत्त्वे अभिभूय तमःप्रधानमन्तःकरणं
तदहंकारपदवाच्यं विकल्पकरणं षोडशं तत्त्वम्। शब्दग्राहकमिन्द्रियं श्रोत्रम्,
स्पर्शग्राहकं त्वक्, रूपग्राहकं चक्षुः, रसग्राहकं रसनं, गन्धग्राहकं घ्राणम्
एकविंशं तत्त्वम्, व्यक्तवागुच्चारणानुकूलं वागिन्द्रियम्, ग्रहणत्यागानुकूल-
मिन्द्रियं पायुः, मैथुनजनकमिन्द्रियमुपस्थः (क्रमेण) षड्विंशं तत्त्वम्,
सूक्ष्माकाशरूपशब्दः सप्तविंशं, सूक्ष्मवायुरूपः स्पर्शः अष्टाविंशं,
सूक्ष्मतेजोरूपं रूपम् एकोनत्रिंशं, सूक्ष्मजलरूपो रसः त्रिंशं, सूक्ष्मपृथिवीरूपो
गन्ध एकत्रिशम्, अवकाशात्मक आकाशः स्थूलः द्वात्रिंशं, सदागतिमत्त्वात्मक-
गुणवान् वायुः त्रयस्त्रिंशम्, उष्णवत् तेजः चतुस्त्रिशं, द्रवत्ववज्जलं पञ्चत्रिंशं,
काठिन्यगुणवती पृथ्वी षट्त्रिंशं चरमं तत्त्वम्। एतादृशतत्त्वसंघातो विश्वं
जगदिति व्यवहारविषयाभिन्नम्॥४॥