परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)
Parasurama Kalpasutra with Vidya Niwas Mishra Commentary
भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा
पृष्ठ 305, कुल 320 में से
संदर्भ में पढ़ेंसर्वसाधारणक्रमः २६३
धारिणी युवती तथा मदमस्त हाथी देखकर परमेश्वर की कौतुकमयी सुरुचिपूर्ण
रचना का ध्यान कर इनका वन्दन करना चाहिये।।६६।।
अथ नैमित्तिक-पूजामाह
पञ्चपर्वसु विशेषार्चा ।।६७।।
पञ्चपर्वाणि १. कृष्णाष्टमी, २. कृष्णचतुर्दशी, ३. अमा, ४. पूर्णिमा,
५. सङ्क्रान्तिश्च। देवीभागवते यथा—
“कृष्णाष्टमी च तद्भूता पूर्णिमासंक्रमो रवेः। एतानि पञ्चपर्वाणि दुर्लभं
तत्र पूजनम्”। ‘पञ्चपर्वसु’ इति कथनात् पञ्चपर्वसु सूत्रानुयायिनः पूजन-
मावश्यकम्। दमनपवित्रारोपणाद्यकरणे न प्रत्यवायः। करणे अभ्युदय इति
सिद्धम् ।।६७।।
कृष्णपक्ष की अष्टमी, चतुर्दशी, अमावास्या, पूर्णिमा और संक्रान्ति मिलाकर
पाँच पर्व माने जाते हैं। देवीभागवत भी इसी मत का प्रतिपादन करता है।
कल्पसूत्रानुयायी उपासक इसकी अवश्यकरणीयता स्वीकार करते हैं ।।६७।।
अथैषां कुलधर्माणामनुष्ठानविधिं वक्तुं तदुपोद्घातभूतान् उल्लासान् विभजते
आरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थोल्लासेषु प्रौढान्ताः
समयाचाराः। ततः परं यथा कामी। स्वैरव्यवहारेषु वीरावीरेष्व-
यथामननादधःपातः ।।६८।।
आरम्भः, तरुणः, यौवनः, प्रौढः, तदन्तः, उन्मनः, अनवस्थः,
उपासकस्य सप्त दशाविशेषाः। तत्र—
१. आरम्भो नाम उपासनाविषयकेच्छामात्रवत्त्वे सति तन्त्रशास्त्रा
नभिज्ञत्वम्।
२. सम्यग्गुरुं सम्पाद्य दीक्षितस्तदनन्तरं तन्त्रशास्त्रपिपठिषाशालित्वं
तस्योल्लासः।
३. ततस्तच्छास्त्रविषयकज्ञानवत्त्वं यौवनोल्लासः।