परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)
Parasurama Kalpasutra with Vidya Niwas Mishra Commentary
भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा
पृष्ठ 302, कुल 320 में से
संदर्भ में पढ़ें२६० परशुरामकल्पसूत्रम्
इस प्रकार के मद्य ग्रहण में किसी दोष की सम्भावना नहीं होती। इससे
सेवन करने वाले में धातुवैषम्य भी उत्पन्न नहीं होता।।२२।।
अथ द्वितीयतृतीयसम्पादनप्रकारमाह
तदनन्तरं मध्यमयोरस्वयमसुविमोचनम्। उपादिमे नायं नियमः।
मध्यमे तु स्वयं संज्ञापने तत्रायं मन्त्रः-
उद्बुध्यस्व पशो त्वं हि नाशिवस्त्वं शिवो ह्यसि।
शिवोत्कृत्तमिदं पिण्डं मत्तस्त्वं शिवतां व्रज।।इति।।६३।।
तदनन्तरं प्रथम समादानान्तरं मध्यमयोर्द्वितीयतृतीययोः। अस्वयम्
आत्मभिन्नम्। असुविमोचनं प्राणविमोचनं प्राणमोचनसाधनम्। कुर्यादिति शेषः।
द्वितीयतृतीयप्रकृतिभूतपशुप्राणवियोगं स्वयं न कुर्याद् इति फलितोऽर्थः।
अथान्यस्य संज्ञप्तुरभावे किं कार्यम्? तत्राह—
उपादिम इति। उपादिमस्य द्वितीयस्य असुविमोचनं स्वयमप्यन्याभावे
कुर्यात्। तृतीयस्य स्वयमसुविमोचने 'उद्बुध्यस्व' इति मन्त्रं पठित्वा
असुविमोचनं कुर्याद् इति भावः। भूचरं खेचरं चैव द्वितीयं द्विविधं भवेत्।
तृतीयप्रकृतिः— अथ तृतीयमुख्यभेदो योगिनीतन्त्रे—
मत्स्यः कूर्मश्च देवेशि तृतीयं द्विविधं भवेत्।
तदनुकल्पो रहस्यार्णवे—
संवित्संयुक्तं चणकपिष्टजं बटकं शिवे ।
मीनाकृतिकृतं वापि मूलकं वापि वा शिवे ।।
अलाभे तु तृतीयस्य द्वितीये त्र्यम्बकं यजेत् ।।
चतुर्थद्रव्यम्—
चणकोत्था माषजा वा मुद्राः स्युर्घृतपाचिताः।
पञ्चमप्रकारः—
पञ्चममुख्यस्य प्रकारस्त्रिविधः। तत्राद्यं दूतीजनरूपम्। तत्राधिकारिणः
सदाशिवादयः। द्वितीयं स्वयोषित्स्वेव।